Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay, 
Publisher: Ek Shramanopasika

View full book text
Previous | Next

Page 117
________________ ॥११३॥ श्चक्रवर्ती जातः । तथापि षट् खण्डभरतराज्यं स मदनावल्या रहितं नीरसं मन्यते । अन्यदा तस्मिन्नाश्रमपदे गतस्य तस्य - महापद्मचक्रिणस्तापसैमहान् सत्कारः कृतः। जनमेजयेनापि राज्ञा मदनावली तस्मै दत्ता, तेन परिणीता स्त्रीरत्नं बभूव । ततो महापद्मश्चत्र द्धिसमेतो हस्तिनागपुरं प्राप्तः, प्रणनाम च जननीजनकपादान् । ताभ्यामप्यधिकस्नेहेन प्रेक्षितः । अत्रान्तरे तत्रैव समवसृतो मुनिसुव्रतस्वामिशिष्यो नागमरिः, ततो निर्गतः सपरिवारः पद्मोत्तरराजा तं वंदित्वा पुरो निषण्णः । गुरुणा च तत्पुरो भवनिर्वेदजननी देशना कृता । तां श्रुत्वा वैराग्यमापन्नो राजा गुरु प्रत्येवमुवाच-भगवनहं राज्यं स्वस्थं कृत्वा भवदन्तिके प्रव्रजिष्यामि । गुरुणा भणितं-मा विलम्ब कुर्विति, गुरु प्रणम्य नगरे प्रविष्टो राजा। आकारिता मन्त्रिणः प्रधानपरिजना विष्णकुमारश्च, सर्वेषामपि राज्ञैवमुक्तम् । भो भो! श्रुता भवद्भिः संसारासारता, अहमेतावत्कालं वश्चितः । यत् श्रामण्यं नानुष्ठितवान् । ततः साम्प्रतं विष्णकुमारं निजराज्येऽभिषिच्य प्रव्रज्यां गृह्णामि । ततो विष्णुकुमारेण विज्ञप्तम् , तात ! ममापि किम्पाकोपमै गैः सृतम् , तव मार्ग मेवानुसरिष्यामि। ततो विष्णुकुमारस्य दीक्षानिश्चयं ज्ञात्वा पद्मोत्तरराज्ञा महापद्म आकारितो भणितश्च-पुत्र ! ममेदं राज्यं प्रतिपद्यस्व । विष्णुकुमारोऽहं च प्रव्रज्यां प्रतिपद्यावः । अथ विनीतेन महापद्मन च भणितम् । तात ! निजराज्याभिषेक विष्णुकुमारस्यैव कुरु । अहं पुनरेतस्यैवाज्ञाप्रतीक्षको भविष्यामि। राज्ञा भणितं-वत्स ! मयोक्तोऽप्ययं राज्यं न प्रतिपद्यते । अवश्यमयं मया समं प्रवजिष्यति। ततः शोभनदिवसे महापद्मस्य कृतो राज्याभिषेकः । विष्णुकुमार XXXXXX EXXXXXXXXXXXXXXXXXX ॥११३॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150