Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay, 
Publisher: Ek Shramanopasika

View full book text
Previous | Next

Page 116
________________ "श्री कट्टिस कहा " ॥ ११२ ॥ ****** त्वमेवं मामपहरसि ? तया भणितं कुमार ! शृणु । वैताढये सुरोदयनाम नगरमस्ति । तत्रेन्द्रधनुर्नाम विद्याधराधिपतिरस्ति । तस्य भार्या श्रीकान्ता वर्तते तस्याः पुत्री जयचन्द्रानाम्नी वर्तते । सा च पुरुषद्वेषिणी नेच्छति कथमपि चरम् । ततो नरपत्याज्ञया मया सर्वत्र वरनरेन्द्रा विलोक्य विलोक्य पट्टिकायां लिखिताः सर्वेऽपि तस्या दर्शिताः, नकोsपि रुचितः अन्यदा मया तस्यास्तव रूपं दर्शितम् । तदर्शनानन्तरमेव सा कामावस्थया गृहीता, भणितं च तया यद्येष भर्ता न भविष्यति, तदाऽवश्यं मया मर्तव्यम्, अन्य पुरुषस्य मम यावज्जीवं निवृत्तिरेव । एष तस्या व्यतिकरो मया तन्मातृपित्रोर्ज्ञापितः । ताभ्यां त्वदानयनायाहं प्रयुक्ता । अविश्वसन्त्यास्तस्या विश्वासार्थ मयेयं प्रतिज्ञा कृता, यद्यहं त्वां त्वरितं नानयामि, तदा ज्वालाकुले ज्वलने प्रविशामि । ततः कुमार ! यदि तव प्रसादेन मम मरणं न सम्पद्यते, यथा च मे प्रतिज्ञानिर्वाहो भवति, तथा प्रसादं कुरु । ततस्तदाज्ञया तया महापद्मः सूर्योदये तत्र नीतः । खेचराधिपतिर्मिलितः, तेन च सुमुहूर्ते तस्याः पाणिग्रहणं कारितं पूजिता च वेगवती । इतश्च जयचन्द्राया मातुलभ्रातरौ गंगाधर महीधरनामानौ विद्याधरावतिप्रचण्डाषिमं व्यतिकरं ज्ञात्वा अनेकमटसहितौ महापद्मेन समं सङ्ग्रामार्थमागतौ । महापद्मोऽपि तयोरागमनं श्रुत्वा सरोदयपुराद्वहिविद्याधरभट परिवृतो निर्गतः, संप्रलग्नस्तयोः सङ्ग्रामः, तदानीं महापद्म ेन स्यन्दनाः, कुञ्जराः, अश्वाः, सुभटाः परवलसत्काः सर्वेऽपि बाणैर्विद्धाः, भग्नं स्व बलं दृष्ट्रा गङ्गाधरमहीधरौ स्वयमुत्थितौ, महापद्म नोभावपि हतौ । ततो लब्धजयः स महापत्र उत्पन्न स्त्रीरत्नवर्जसर्वरत्नः, प्राप्तनवनिधिर्द्वात्रिंशत्सहस्र मण्डलेश्वर सेवितपादपद्मः, परिणीतैकोन चतुःषष्टिसहस्रान्तः पुरो हयगजरथपदातिकोशसम्पन्नो नवम I For Personal & Private Use Only Jain Educaternational "नवमम् महापद्म चक्रवतिचरितम्” ॥११२॥ nelibrary.org

Loading...

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150