Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay,
Publisher: Ek Shramanopasika
View full book text
________________
"श्री
"नवमम्
चकवाट्टिस्स
महापा चक्रवर्तिचरितम्"
॥११॥
KXXXXXXXXXXXXXXXXXXXXXXX
धिपतिरिति महापद्मदेशं विनाश्य कोट्टे प्रविशति । ततो रुष्टेन महापद्मन नमुचिमंत्री पृष्टः, सिहबलराजग्रहणे किञ्चिदुपायं जानासि १ नमुचिनोक्तं सुष्टु जानामि । ततो महापद्मप्रेरितोऽसौ सैन्यवृतो गतो निपुणोपायेन च दुर्ग भक्त्वासिंहवलो बद्ध आनीतश्च महापान्तिके । महापद्मेनोक्तं नमुचे ! यत्तवेष्टं तन्मार्गय ? नमुचिनोक्तं सांप्रतं वरः कोशेऽस्तु, अवसरे मार्गयिष्यामि । एवं यौवराज्यं पालयतो महापद्मस्य कियान कालो गतः । अन्यदा महापद्ममात्रा ज्वालादेव्या जिनरथः कारितः, अपरमात्रा च मिथ्यात्ववासितया जिनधर्मप्रत्यनीकया लक्ष्मीनाम्न्या ब्रह्मरथः कारितो भणितश्च पद्मोतरो नाम राजा, यथेष ब्रह्मरथः प्रथम नगरमध्ये परिभ्रमतु | जिनरथश्च पश्चात्परिभ्रमतु । इदं वचः श्रुत्वा ज्वाला देव्या प्रतिज्ञा कृता, यदि जिनरथः प्रथमं न भ्रमिष्यति तदाऽपरजन्मनि ममाहारः। ततो राज्ञा द्वावपि रथौ निरुद्धौ । महापद्मः स्वजनन्याः परमामधति दृष्टा नगरान्निर्गतः केनापि न ज्ञातः। परदेशे गच्छन् महाटव्यां प्रविष्टः, तत्र च परिभ्रमंस्तापसालये गतः । तापसैदत्तसन्मानस्तत्र तिष्ठति ।
इतश्च चम्पायां नगर्या जनमेजयो राजा परिवसति । स च कालनरेन्द्रेण प्रतिरुद्धः, ततो महान् सङ्ग्रामो बभूव । जनमेजयो नष्टः, तस्यान्तः पुरमपीतस्ततो नष्टम् जनमेजयस्य राज्ञो नागवतीनाम भार्या, सा मदनावलीपुच्या समं नष्टा, आगता तं तापसाश्रमम् , समाश्वासिता कुलपतिना तत्रैव स्थिता । कुमारमदनावल्योः परस्परमनुरागो ज्ञातः । कुलपतिना नागवत्या मात्रा च भणिता मदनावली, यथा पुत्रि ! त्वं किन स्मरसि नैमित्तिकवचनं १ यथा चक्रवर्तिनस्त्वं प्रथमपत्नी भविष्यसि । ततः कथं यत्र तत्रानरागं करोषि ! कुलपतिनापि कुमारस्य विसर्जनार्थमु
*:XXXXXXXXXXXXXXXXXXXXXXXX
॥११०॥
Jain Educa
Ternational
For Personal & Private Use Only
Malinelibrary.org

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150