Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay, 
Publisher: Ek Shramanopasika

View full book text
Previous | Next

Page 97
________________ ॥३३॥ KXXXXXXXXXXXXX नम इत्युक्त्वा रत्नसिंहासने प्राङ्मुख उपाविशत् । सुरादयश्चाऽपि यथाद्वारं प्रविश्य यथास्थानं यथाविधि निविविशिरे । चक्रायुधोऽपि च तज्ज्ञात्वा सद्यः समेत्य प्रभुं प्रदक्षिणापूर्वकं प्रणम्याऽनुशक्रमुपविवेश । ततः सचक्रायुधेन शक्रेण स्तुतः प्रभुः श्रीशान्तिनाथो देशनामारेभे । तथाहि-"अनेकदुःखसन्तानहेतुरयं संसारश्चतुर्गत्यात्मकः । गृहस्य स्तम्भा इव चत्वारः क्रोधमानमायालोमाः कषायास्तस्याऽऽधाराः। तस्मात्क्षीणेषु कषायेषु संसारश्छिन्नमूलो महीरुह इव स्वयं क्षीयते । कषायजयश्च नेन्द्रियजयं विना । असाधितैरिन्द्रियैर्हि हयैरिवाऽपथे जन्तुनरके पात्यते । इन्द्रियर्जित एव जन्तुः कषायैरभिभूयते । अजितानि चेन्द्रियाणि कुलघाताय पाताय बन्धाय वधाय च जन्तूनां जायन्ते । पण्डिता अपि हीन्द्रियवशा विडम्बना प्राप्नुवन्ति । इन्द्रियाणामतोऽधिकं किं लञ्जाकरं यद्वन्धावपि बाहुबलिनि भरतोऽस्त्रममुश्चत् । तत्र बाहुबलिनो जयो भरतस्य पराजयश्च जिताजितानामिन्द्रियाणामेव प्रभावः । एष च दुरन्तानामिन्द्रियाणां महिमा, यच्चरमेऽपि भवे स्थिता जन्तवः शस्त्राशस्त्रि युध्यन्ते । शान्तमोहाः पूर्वविदोऽपीन्द्रियैर्दैण्ड्यन्ते । देवादयश्चाऽपीन्द्रियवशास्तपस्विनश्च जुगुप्सितानि कर्माणि कुर्वन्ति । इन्द्रियवशा ह्यस्वाद्यमपि खादन्त्यपेयमपि पिन्वत्यगम्यां चाऽपि गच्छन्ति । तथेन्द्रियहताः कुलशीलवर्जिता वेश्यानामपि दास्यानि कुर्वते । इन्द्रियाणामेव स प्रभावो यनराः परद्रव्ये परस्त्रीषु च प्रवर्तन्ते । इन्द्रियवशाच्च पाण्यादीनां छेदान् मरणं च जनाः प्राप्नुवन्ति । एक वीतरागं त्यक्त्वाऽऽदेवेन्द्रादाकीटाच्च सर्वे प्राणिन इन्द्रियैर्जिताः । करिणीस्पर्शसुखलुब्धः करी तत्क्षणादालानबन्धनक्लेशमामोति । अगाधजलस्थश्च मीन आमिषं गिलन IXXXXXXXXXXXXXXXXXXXXXXX 18३॥ Jain Educa la derational For Personal & Private Use Only Sadhinelibrary.org

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150