Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay,
Publisher: Ek Shramanopasika
View full book text
________________
पश्वमा
"श्री चक्कवट्टिस्स
कहा"
श्रीशान्तिनाथ चक्रवर्तिचरितम्"
श्वरश्च चत्वारो वणिक्पुत्राः सवयसोऽभूवन् । अन्यदा चाऽर्थोपार्जनार्थ ते चत्वारोऽपि गृहीतपाथेयाः सम्भूय रत्नद्वीपं प्रत्यचलन् । महाटवीं प्रविश्य तत्प्रान्ते क्षीणप्रायपाथेयास्ते प्रतिमास्थितं मुनिं दृष्ट्वाऽस्मै किश्चित्प्रयच्छामीति चिन्तयित्वा द्रोणकनामानं पाथेयवाहकमूचुः-"भो भद्र ! द्रोण ! अस्मै महर्षये किश्चिदपि देहि" । ततस्तेभ्योऽप्यधिकश्रद्धया स तं मुनि प्रत्यलाभयत् । तेन च तेन भहाभोगफलं कर्मोपार्जितम् । तथा ते रत्नद्वीपं प्राप्य व्यवहृत्याऽर्थमुपायं पुननिर्ज नगरं समाजग्मुः। तेन पुण्यबीजेन च ते सर्वदापि ननन्दुः । तेषु धनेश्वर-धनपती मनाग मायापरौ। द्रोणकश्च सर्वतः शुद्धवृत्तिः। स च द्रोणक आयुःक्षये विपद्य दानप्रभावाद् हस्तिनापुरेशितुः पुत्रस्त्वमभूः । त्वयि गर्भस्थे जननी मुखे विशन्तं चन्द्रं दृष्टवतीति तव पितृभ्यां कुरुचन्द्रेति नाम कृतम् ।
सुधनो धनदश्च द्वावपि मृत्वा काम्पील्यनगरे कृत्तिकापुरे च क्रमाद्वणिक्सतौ वसन्तदेवकामपालनामानौ जातौ । धनपतिर्धनेश्वरश्च विपद्य शङ्खपुरे जयन्त्यां पुर्या च क्रमान्मदिराकेसरानाम्न्यौ वणिकपुन्यौ बभूवतुः । ते चत्वारोऽपि च क्रमेण वर्धमाना यौवनं प्रापुः । एकदा वसन्तदेवो व्यवहारार्थ जयन्त्यां पुर्या प्रयायाऽथ समुपाजयत् । अष्टमीचन्द्रोत्सवे च यदृच्छया रतिनन्दनमुद्यानं गतः केसरां ददर्श । तयाऽपि च स स्निग्धया दृशा ददृशे । एवं तयोः प्राग्जन्मभवः स्नेहः परस्परं प्रादुरासीत् । ततो वसन्तदेवः प्रियङ्करं नाम वणिक्पुत्रं केयं कस्य च सुतेति पप्रच्छ । सोऽवोचत्-"इयं श्रेष्ठिनः पञ्चनन्दिनः पुत्री जयन्तिदेवस्य स्वसा केसरा नाम । ततो वसन्तदेवो जयन्तिदेवेन सह सौहृदं विधाय मिथो गृहे गतागतं समारेभे । एकदा च जयन्तिदेवेन निमन्त्रितस्तद्गृहं गतो वसन्तदेवः
EXXXXXXXXXXXXXXXXXXX
॥६६॥
Jan Educa
madonal
For Persons & Private Use Only
belorary.org

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150