Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay,
Publisher: Ek Shramanopasika
View full book text
________________
॥६५॥
XXXXXXXXXXXXXXXXXXXX XXXX
ऽन्तिके प्रव्रज्यामुपादत्त । ततश्च प्रभुः षट्त्रिंशतश्चक्रायुधादिकान् गणधरान् त्रिपदीमुपादिशत् । ते च तदनुसारेण द्वादशाङ्गीमसूत्रयन् । स्वामी च तेषामनुयोगगणाऽनुज्ञे अदत्त । भूयांसश्च नरा नार्यश्च प्रबुद्धास्तदानीं स्वामिनोऽन्तिके प्रव्रज्यां जगृहुः । केचिच्च सम्यक्त्वपूर्वकं श्रावकत्वं जगृहुः। प्रथमपौरुष्यां पूर्णायां स्वामिनि देशनाविरते द्वितीयस्यां च पौरुष्यां पूर्णायां गणधरे देशनाविरते सुरादयः स्वामिनं नत्वा स्वं स्वं धाम ययुः। तत्तीर्थे च समुत्पन्ने,-गजरथोऽसितवर्णः क्रोडास्यो दक्षिणाभ्यां बाहुभ्यां बीजपूराऽब्जधरो वामाभ्यां च नकुलाऽक्षसूत्रधरो गरुडाख्यो यक्षः, कमलासना गौरागी दक्षिणाभ्यां पुस्तकोत्पलधारिणी वामाभ्यां च कमण्डलुकमलधरा निर्वाणी देवी च-शासनदेवते प्रभोः सन्निहिते जाते । ताभ्यां सहितश्च भगवान् शान्तिवसुन्धरां विजहार ।
अथाऽन्यदा हस्तिनापुरमुपेत्य भगवान् समवासार्षीत् । तत्र च सपौरपरिच्छदस्तत्पुरेश्वरः कुरुचन्द्रो भगवन्तमुपतस्थे । यथास्थानं स्थितेषु च देवादिषु भगवान् देशनां विदधे । देशनान्ते च नत्वा कुरुचन्द्रो व्यजिज्ञपत्-"स्वामिन् ! केन पूर्वकर्मणाऽहमिह राज्यमासदम् ? । तथा ममोपायने प्रतिदिनं पञ्च वस्तुफलादीनि केन कर्मणा ढौकन्ते । तदिष्टेभ्यो दास्यामीति स्वयं नोपभुजे, न चाऽन्यस्मै तत्प्रयच्छामि, तत्केन कर्मणा ?" ततः प्रभुराख्यत्-"एत सर्व साधवे दानतस्तव राज्यश्रीरन्वहं पञ्चवस्तुढौकनं च । एषामप्रदानमभोगश्च पुण्यसाधारणत्वात् । बहुधा यधीनं वस्तु न खल्वेकेन भुज्यते । तत एव चाऽभीष्टेभ्यः प्रदास्यामीति चिन्ता ते जायते । जन्तूनां बुद्धि हि पूर्वकर्माऽनु| सारेण जायते । अस्यैव जम्बूद्वीपस्याऽस्मिन्नेव भरतक्षेत्रे कौशलाख्ये जनपदे श्रीपुरे नगरे सुधनो धनपतिधनदो धने
॥६५॥
For Personal & Private Use Only
JainEducadol
nelibrary.org

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150