Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay,
Publisher: Ek Shramanopasika
View full book text
________________
"अष्टमम्
चक्कवाद्विस्स कहा"
* सुभूम
चक्रवर्तिचरितम्"
॥१०६॥
XXXXXXXXXXXXXXXX*:*
वशेन तेन सर्वा अपि ताः कुब्जाकृतयः कृताः, स पश्चाद्वलितः, राजगृहाङ्गणे धुलिक्रीडां कुर्वत्येका राजपुत्री तेन दृष्टा, तस्या बीजपूरकं च दर्शितं, तद्गृहणाय तया करः प्रसारितः, तदा तेन राज्ञोऽग्रे निरूपितं यदियं मामभिलपतीति कथयित्वा गृहीता. पश्चाद्भीतेन राज्ञा सहस्रगवां गोकुलेन दासीवृन्देन च सहिता सा तस्मै दत्ता, तुष्टेन तेनाऽवशिष्टया तपःशक्त्या सर्वा अपि राजपुत्र्यः सजीकृताः, एवं सर्वमपि तपःक्षपयित्वा रेणुकां बालामादाय स वनमागतः, तत्र चाश्रमोटजानि विधाय स स्थितः.
क्रमेण सा यौवनं प्राप्ता, परिणीता च. प्रथमर्नुकाले यमदग्निस्तस्यै कथयतिस्म, भो सुलोचने शृणु ? त्वदर्थमहं चरु मंत्रेणाभिमन्त्र्य समर्पयामि, येन तव चारुपुत्रो भवेत , ततो रेणुकयोक्तं भो स्वामिन् द्वौ चरू ममार्पय ? येनैकेन ब्राह्मणः पुत्रो भवेत् , एकेन च क्षत्रियः, क्षत्रियचरु हस्तिनागपुराधिपाऽनंतवीर्यनृपपरिणीतायाः स्वभगिन्या अनंगसेनाया अहं समर्पयिष्यामि. द्वितीयं चाहं भक्षयिष्यामि. एवं रेणुकायाः कथनेन तेन चरुद्वयं मन्त्रितं, स्वस्त्रियै च समर्पितं. पश्चाद्रेणुकया चिंतितं, मदीयः पुत्रः शूरो भवेत्तदा वरमिति विचार्य तया क्षत्रियचरुभक्षणं कृतं. द्वितीयो ब्राह्मणचरुरनगसेनायाः प्रेषितस्तया च भक्षितः, तस्याः पुत्रो जातः, तस्य च कीर्तिवीर्य इति नाम दत्तं. रेणुकायाः पुत्रस्य राम इति नाम दत्तं. यौवनमनुप्राप्तः, तदवसरे कश्चिदतीसाररोगपीडितो विद्याधरस्तदाश्रममागतः, रामेण तस्य प्रतिपत्तिः कृता, औषधप्रयोगेण तस्य स्वास्थ्यं कृतं. हृष्टेन विद्याधरेण रामाय परशुविद्या दत्ता, तेन च सा साधिता, ततस्तस्य परशुराम इति नाम प्रसिद्धं जातं. देवताधिष्ठितं कुठारायुधं गृहीत्वा स इतस्ततः परिभ्रमति केनाप्यजेयः,
KXXXXXXXXXXXXXXXXXXXXXXX:*
॥१०६॥
Jain Educa
t ional
For Personal & Private Use Only
polibrary.org

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150