Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay, 
Publisher: Ek Shramanopasika

View full book text
Previous | Next

Page 86
________________ चक्कट्टिस्स कहा" "पञ्चमः श्रीशान्ति नाथ चक्रवर्तिचरितम्" ॥ २॥ XXXXXXXXXXXXXXX उद्यानं ययौ । तत्र चिक्रीड च । तत्र नृपाऽनुज्ञाता पृथिवीसेना भ्रमन्ती दन्तमथनं मुनिं ददर्श । ततो मुदिता तं वन्दित्वा देशनां श्रुत्वा प्रबुद्धा तत्कालं राजानमापृच्छय तन्मुनेः प्रव्रज्यामाददे। अभयघोषोऽपि च तस्याश्चारित्रं प्रशंसन स्वं धाम जगाम । अन्यदा च स नपः स्वप्रासादे रत्नसिंहासनासीनस्तीथकुल्लिङ्ग छद्मस्थतया विहरमाणं जिनपुङ्गवमनन्तं प्रविशन्तं दृष्टा ससम्भ्रममुत्थायोचितं भोज्यमादाय प्रणामपूर्वकं भगवन्तमुपतस्थे । भगवानपि च तद्दत्तभिक्षया पारणा चकार । देवैश्च तत्र वसुधारादिपञ्चकं दिव्यं विदधे । भगवांश्च पारणां विधाय क्वाऽपि विजहार । स च तीर्थकुदेकदा विहरन्नुत्पन्नकेवलो वज्रपुरे समवासरत् । तत्र चाभयघोषः समेत्य यथाविधि वन्दित्वा देशनां श्रुत्वाऽन्ते च पुनर्नत्वा भगवन्तं जगाद-"भगवन् ! क्षणं प्रतीक्षस्व तनयं राज्ये निवेश्य दीक्षायै त्वत्पादान्तिकमायामि। ततो नैव प्रमादिना भाव्यमिति स्वामिनोक्तः स गृहं गृत्वा पुत्रावुवाच-"वत्स ! विजय ! त्वं क्रमागतं राज्यमादत्स्व । वैजयन्त ! त्वमस्य यौवराज्यं परिपालय । अहं तु प्रवजिष्यामि"। ततस्तावूचतुः-"यथा भवान् भवभीतस्तथाऽऽवामपि । अत आवामपि प्रवजिष्याव:"। ततः साविति तौ प्रशस्य स नृपो राज्यमन्यस्मै कस्मैचिद्दत्त्वा ताभ्यां पुत्राभ्यां सहाऽनन्तजिनान्तिकं गत्वा प्रवव्राज । ते त्रयोऽपि चोग्रं तपस्तेपुः । तत्र भूपतिर्विशत्या स्थानकैस्तीकृन्नामकर्मोपार्जेयत् । ते त्रयोऽपि च काले विपद्याऽच्युते कल्पे द्वाविंशतिसागरोपमजीविता देवा बभूवुः।। इतश्च जम्बूद्वीपे प्राग्विदेहेषु पुष्कलावत्यां विजये पुण्डरीकिण्यां नगयों हेमाङ्गदो नाम नृपोऽभूत् । तस्य च XXXXXXXX XXXXXX ८२ ॥ KXXXX Jain Educal a torta For Personal & Private Use Only d elibrary.org

Loading...

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150