Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay,
Publisher: Ek Shramanopasika
View full book text
________________
॥
१॥
तस्य महिषीयूथे च तौ महिषौ जातौ पीनाङ्गो यौवनं च प्रपेदाते । देवानन्दाकुक्षिभवौ शत्रुञ्जयनृपात्मजौ घनसेन| नन्दिषेणौ च तौ महिषावपश्यताम् । ताभ्यां च कुतूहलातावुभौ महिषावयुध्येताम् । चिरं युद्ध्वा च तो विपद्य तत्रैव
पुर्या कालमहाकालाख्यौ दृढाङ्गी मेण्ठको जातौ । दैवादेकत्र मिलितौ प्राग्वैरादभियुध्य विपद्य समविक्रमावेतौ कुक्कुटौ जातौ । अतः प्राग्वदेतयोर्न कोऽप्यन्येन जेष्यते । किञ्चेमौ न केवलं पूर्ववैराविष्टौ, किन्तु विद्याधराऽधिष्ठितौ युध्येते ।
अस्यैव जम्बूद्वीपस्य भरते वैताढ्योत्तरश्रेण्या स्वर्णपुरे गरुडवेगो नाम नृपोऽभूत् । तस्य पत्नी धृतिषेणा च स्वोत्सङ्गस्थितचन्द्रसूर्यस्वप्नसूचितौ चन्द्रतिलकसूर्यतिलकाख्यौ सुतौ सुषुवे । तौ च प्रपन्नयौवनौ मेरु गतौ शाश्वतार्हता प्रतिमा ववन्दाते । कौतुकाच्च तत्र भ्रमन्तौ स्वर्णशिलास्थितं नन्दने सागरचन्द्राख्यं चारणमुनिमपश्यताम् । तौ च तं नमस्कृत्य देशनां श्रुत्वाऽन्ते ऊचतु:-"भगवन् ! आवयोः प्राक्तनान् भवानाख्याहि" । ततो मुनिरूचे-"धातकीखण्डद्वीपे पूर्वैरवते वर्षे वज्रपुरेऽभयघोषो नृपस्तत्पत्नी सुवर्णतिलका चाऽभृताम् । तयोश्च सुतौ विजयो वैजयन्तश्च कलाकलापकुशलौ यौवनं प्रपेदाते । तथा तत्रैरवते स्वर्णद्रमे पुरे शङ्खनामा महीपतिरासीत । तस्य पत्नी पृथिवीदेवी चोत्सङ्गस्थितपुष्पमाल्यस्वप्नसूचितां पृथ्वीसेनाख्यां सुतां सुषुवे । तां च प्राप्तयौवना स शङ्खोऽभयघोषाय ददौ । एकदा च वसन्ततौं वसन्तपुष्पाण्यादाय काऽपि चेटिकाऽभयघोषसन्निधौ गतवती । तां दृष्ट्वा च सुवर्णतिलका नृपमुवाच-'वसन्तेन षडतुकाभिधमुद्यानममण्ड्यत ! तदिदानी मधुलक्ष्मीमनुभवितुं सपरिवारास्तत्र गच्छामः" ।
॥८१॥ अत्रान्तरे च पृथिवीसेना नृपं कोटिमून्यानि युक्तिपुष्पाणि करे दधानोपस्थिता । तानि वीक्ष्याऽऽदाय च प्रसन्नो नृप ।
KXXXXXXXXXXXXXXXXXX
Jain Educar
19
For Persona & Private Use Only
ARTorary.org

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150