Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay,
Publisher: Ek Shramanopasika
View full book text
________________
॥ ३३॥
रट्य स यक्षो वायुवेगेन पलायिष्ट । रणकौतुकावलोकिन्यो विद्याधर्यादयस्त्वन्मित्रे पुष्पाणि ववृषुः।
ततो धीरमानस आर्यपुत्रोऽपराह्व मानसादचालीत् । नन्दनादायाता रूपवती खेचरकन्यकां ददर्श च । ताभिश्वाऽपि हावभावमनोहरं त्वन्मित्रं ददृशे। ताश्चोपेत्य सद्भाव प्रकटयामासुः। आर्यपुत्रोऽपि तामुवाच-"यूयं कस्य महात्मनः पुन्यः, इदमरण्यं च केन हेतुना युष्माभिभूषितम् ? । ततस्ता अप्यूचुः-"वयं विद्याधरेन्द्रस्य भानुवेगस्याऽष्टौ कन्यकाः। मम पितुश्च नगरीतोऽनतिदर एवाऽस्ति । ता विश्रान्त्याऽलकुरु"। सविनयमुक्तस्ताभिश्च ते सखा वरचिन्ताभृतः स्वपितुरन्तिकमनायि | भानुवेगश्चाऽभ्युत्थानं कृत्वा स्वागतवचनमुच्चार्योवाच-"त्वं कन्यानामुचितो वरोऽसीति मया प्रायसे इमा अष्टावपि परिणय"। तेन चैव अभ्यर्थितस्तव सखा तदैव ता अष्टा अपि विधिपूर्वक पर्यणेषीत् ।
ताभिश्च समं रतिगृहे सुप्तोऽसौ बद्धकङ्कणो निद्रितोऽसिताक्षणोत्क्षिप्याऽन्यत्र चिक्षिपे । निद्रान्ते च तव सखा स्वं सकङ्कणं भूमिष्ठमरण्यान्तरेकाकिनं पश्यन् किमिदमिति चिन्तयामास । पूर्ववच्चैकाक्यटव्यन्तरटन्नेकम_लिहं सप्तभूमिकं प्रासादं ददश। अदोऽपि कस्याऽपि मायाविनो मायाविलसितं किश्चित् चिन्तयंस्तं प्रासादमाससाद । तत्र च कस्याऽपि योषितः सकरुणं रुदितं श्रुत्वा दयावीर आर्यपुत्रस्तत्र प्रासादे सप्तमी भूमि प्राप्तः-सनत्कुमार ! जन्मान्तरेऽपि त्वमेव मम भर्ता भृया इति भूयो भूयो वदन्ती रूपलावयपुण्याङ्गीमधोमुखीमश्रुपूर्णेक्षणां कन्यकां ददर्श । स्वनामश्रवणाच्च केयमित्याशङ्कितः पुरोभूय तामाभाषिष्ट-“भद्रे ! सनत्कुमारः कः ?, कासि त्वम् , इह किमागता, किंवा ते व्यसनम् ,
॥३३॥
For Personal & Private Use Only
Jain Education intentional
wwagainalibrary.org

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150