Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay,
Publisher: Ek Shramanopasika
View full book text
________________
चक्कवाट्टिस्स
कहा"
"पञ्चमः श्रीशान्तिनाथ चक्रवर्तिचरितम्"
॥५६॥
ततोऽभ्युत्थाय वन्दित्वा तं शुधैरन्नाद्यैः प्रत्यलाभयत् । तदानीं च तत्र सत्पात्रदानप्रभावतो वसुधारादिपञ्चदिव्यानि जज्ञिरे । एवं धर्मनिरतयोः सुखमग्नयोः श्रीविजयाऽमिततेजसोभू यांसि वर्षसहस्राणि जग्मुः।
एकदा च नन्दनवने शाश्वताऽर्हतो वन्दितुं सम्भूय श्रीविजयाऽमिततेजसावीयतुः । तत्र च तान् वन्दित्वा कुतूहलाद् भ्रान्त्वा यावन्नन्दनमीक्षाञ्चक्रे, तावत्स्वर्णशिलास्थौ विपुलमतिमहामतिनामानौ चारणमुनी ददृशतुः । ततः श्राद्धौ तौ प्रदक्षिणीकृत्य वन्दित्वा च धर्मदेशनां शुश्रुवतुः । देहिनां मृत्युः सदा समीपवत्येव, ततः क्षणिकं जीवितं जानन्तोऽपि ते मोहाद् धर्मोद्यमं न कुर्वन्ति । मोहो हि महाशत्रुः, स जन्मतो मरणावधि स्वात्महितं धर्ममूलान्निकृन्तति । तस्मान्मोहं सर्वथा हित्वा धर्मः कार्यः। मानुषं जन्म हि पुनः कथश्चिदेव लभ्यम्" । तदाकण्यं च तौ श्रीविजयाऽमिततेजसौ स्वमायुरवशिष्टमपृच्छताम् । तौ मुनी च षड्विंशतिदिनानि शेषमायुराचख्यतुः । तद्वचः श्रुत्वा च निर्विण्णौ तौ नृपावचतुः-"अस्माभिररण्य पुष्पवत्सदा विफलं जीवितं क्षपितम्" । ततस्तौ चारणमुनी तौ प्रत्यबोधयताम्-"विषादेनाऽलम् , अद्यापि युवयोः प्रव्रज्या युज्यते । अन्तेऽपि गृहीता सा शुभगतिनिबन्धनम्" । ताभ्यां चैवं प्रबोधितौ तौ नृपौ निजस्थानमुपेत्य चैत्येषु परममष्टाह्निकोत्सवं चक्राते । दीनानाथादिभ्यश्च यथारुचि ददतुः। तथा स्वपुत्रयो राज्यं दत्त्वा तौ नृपावभिनन्दनजगन्नन्दनयोमुन्योः पुरतो व्रतं जगृहतुः। पादपोपगमनं नामाऽनशनं व्रतं च चक्रतुः। तदानीं च श्रीविजयः स्वपितरं सस्मार । स्वपितु ऋद्धिमधिकां स्वां च ऋद्धिं हीनां विचिन्तयंश्च "ताहगेवाऽहं भूयासमि"ति निदानमकरोत । विपद्य च तो श्रीविजयाऽमिततेजसौ प्राणते कल्पे सुस्थितावर्ते नन्दि
XXXXXXXXXXXXXXXXXXXX
X॥५६॥
Jain Educatiemational
For Personal & Private Use Only
wirajathelibrary.org

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150