Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay,
Publisher: Ek Shramanopasika
View full book text
________________
॥७३॥
*:**********
विद्या साधयन्त्यनेन विद्याधरेण व्योमन्यचिक्षिपे। तदानीमेव चाऽस्या विद्याऽसिद्धयत् । ततः पलायितोऽयं विद्या धराऽधमः क्वाऽपि शरणमलभमानस्त्वत्पादमूलं प्राप्तोऽस्ति । अहं प्रज्ञप्तिविद्यापूजार्थं बलिं गृहीत्वा समागतस्तत्र गिरी निजां दुहितरमपश्यन्नाभोगिन्या विद्यया सर्ववृत्तं ज्ञात्वेहाऽऽगतोऽस्मि । सोऽयं दुरात्मा त्यज्यताम् । यथाऽनया गदया दलयित्वैनं यमपुरं प्रेषयामि" । ततोऽवधिज्ञानाज्ज्ञात्वा वज्रायुधश्चक्रयवोचत्-"भोः ! अस्य प्राग्भवसम्बन्धः शृयताम् ।
अस्यैव जम्बूद्वीपस्यैरावते क्षेत्रे विन्ध्यपुरे नगरे विन्ध्यदत्तो नाम नृपोऽभवत् । तस्य च सुलक्षणाख्यायां पत्न्या नलिनकेतुनामा सुतोऽभवत् । तत्रैव च नगरे धर्ममित्रो नाम सार्थवाहोऽभवत् । तस्य च श्रीदत्तायां पल्यां दत्तो नाम सुतोऽभवत् । दत्तस्य च प्रभङ्करा नाम दिव्यरूपा पल्यासीत । एकदा स वसन्ततौं तया दयितया समं रन्तमद्यानं ययौ । नलिनकेतुश्च तदैव तत्राऽऽगतः प्रभङ्करां दृष्ट्वा तद्रपमोहितः कामातस्तामहार्षीत् । तथा तया सह क्रीडोद्यानादिषु यथेच्छं रेमे । दत्तश्च तद्विरहानलपीडित उन्मत्त इव प्रभङ्करां ध्यायंस्तत्रोद्याने बभ्राम । भ्रमता च तेन सुमना नाम मुनिर्ददृशे । तदानीमेव च तस्य मुनेः केवलमुत्पन्नम् । देवैश्च तस्य केवलज्ञानमहिमा चक्रे । दत्तोऽपि च मुनि वन्दित्वा देशनां श्रुत्वा क्षणात्तापं विहायोपशान्तो दानकर्मनिरतः शुभध्यानी प्रकृष्टं पुरुषायुषमतिवाट जम्बूद्वीपे प्राग्विदेहे सुकच्छे विजये वैताढये स्वर्णतिलके पुरे विद्याधरनरेन्द्रस्था महेन्द्रविक्रमाकस्य पत्न्यामनिलवेगायां पुत्ररूपेणोदपद्यत । नपश्च तस्याऽजितसेन इति नाम दधौ । विधिवद्विविधा विद्याश्च ददौ । यौवनं प्रपन्नश्च सोऽजितसेमो विद्याधरकन्या: परिणीय ताभिगिरिवनादिषु रेमे । विन्ध्यदत्ते विपन्ने च विन्ध्यपुरे नलिनकेतू राजाऽभवत् । स च प्रभङ्करया साध
**************
Jain Educatie International
For Personal & Private Use Only
wledgelibrary.org

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150