Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay,
Publisher: Ek Shramanopasika
View full book text
________________
॥५५॥
EXXXXXXXXXXXXXXXXXXXXXXXX
मन्मनः कम्पते । अप्राप्तजिनधर्मस्य मम भूयांसोऽतिदुःखदा भवा अतीताः। अधुनाऽपि मां रक्ष रक्ष । अतः परमेकोऽपि क्षणो यतिधर्मरहितस्य मे मा गादिति मामद्यैव दीक्षां देहि" । ततो युक्तमेतदिति प्रोच्याऽचलेनाऽनुगृहीतोऽमिततेजसं सप्रश्रयमुवाच-"भाविनश्चक्रिणोऽहतश्च साम्प्रतं महाकुलप्रसूतस्य ते प्रणिपातं कुर्वतो मेन मनागपि लज्जा । एतेऽश्वघोषादयो मम सुता राज्यादीनि च त्वदीयं विद्धि । नाऽन्यथा । एवमुक्त्वा ज्यायांत निजसुतमश्वघोषममिततेजसोऽके क्षिप्त्वाऽचलस्वामिसन्निधौ भूयोभिनरेन्द्रः सह दीक्षामग्रहीत् । श्रीविजयस्य माता स्वयम्प्रभा चापि तत्राऽऽगत्याऽचलस्वामिपादान्ते दीक्षामग्रहीत् । ततो बलभद्रं नस्वामिततेजः श्रीविजयाश्वघोषादयः स्वं स्वं स्थानं ययुः । अर्हत्पूजनादिकविधि विदधानौ च स्वे स्वे पुरेऽवतिष्ठमानौ श्रीविजयाऽमिततेजसौ कालं व्यतीयतुः।
अथाऽन्यदा पौषधौकसि पौषधं गृहीत्वाऽमिततेजा विद्याधराणामाहतं धर्ममाचख्यौ । तदानीमेव च चारणमुनी तत्र चैत्ये जिनबिम्ब विवन्दिषु तत्र समागतवन्तौ । अमिततेजसा च दृष्ट्वा हृष्टेन वन्दितौ तौ त्रिः प्रदक्षिणापूर्व जिनेन्द्र वन्दित्वा तमूचतुः। संसारे प्राप्तमतिदुर्लभं मानुष्यकमविवेकेन मुधा न नेयम् । जैने धर्मे मनागपि प्रमादो न विधातव्यः । तद्विना नाऽन्यदुत्तरोत्तराऽभीष्टदम् ।" एवमनुशिष्य तो पुनरेव विहायसा जग्मतुः। श्रीविजयाऽमिततजसो च वर्षे वर्षेऽहंतां चैत्येषु महिमत्रयं चक्रतुः। तत्र नन्दीश्वरे देवाश्चैत्रे चाऽश्विने चाऽष्टाह्निकोत्सवौ कुर्वन्ति । अन्ये तु स्वस्वचैत्येष्वेव कुर्वन्ति । श्रीविजयाऽमिततेजसौ च चैत्राऽऽश्विनयोः स्वस्वचैत्येषु तृतीयं तु सीमाद्रयादिषु चक्रतुः।
अथैकदामिततेजाः स्वहर्ये स्थितः प्रधानपुरुषैः परिवारितो मासक्षपणकं भिक्षार्थमागतं कश्चिन्मुनि ददर्श ।
KXEXXXXXXXXXXXXXXX
XXXXXXXXX
॥५५॥
For Persona & Private Use Only
Jan Education in
www.jainelibrary.org

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150