Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay, 
Publisher: Ek Shramanopasika

View full book text
Previous | Next

Page 57
________________ ॥ ५३ ॥ **** प्रतिमां प्रपन्नवानासीत् । घातिकर्मणां छेदाच्च तस्य महामुनेः केवलज्ञाने समुत्पन्ने तन्महिमानं विधित्सवः सुरा - ऽसुरा अभिनन्दनजगन्नन्दनज्वलन जटिनस्त्रिजय्यर्क कीर्तिपुष्पकेतुविमलमत्यादयश्च समेत्य बलदेवमुनिं प्रदक्षिणीकृत्य यथास्थानमुपाविशन् । महाज्वालापातभीतोऽशनिघोषोऽपि तत्क्षणमचलं शरणं ययौ । महाज्वालाऽपि चाऽशनिघोषं मुक्त्वा न्यवर्त्तत । यतः शक्रकुलिशस्याऽपि केवलिपर्पदि प्रभावोऽपहीयते । ततः सा विद्याऽमिततेजस मुपेत्य तदशेषं वृत्तान्तं निवेदितवती । मयूरो मेघध्वनिमिव तं वृत्तान्तमाकर्ण्य सर्वेऽमिततेजः श्रीविजयादयो मुमुदिरे । ततश्चाऽस्याः पुर्याः सुतारां समादाय द्रुतमानयेरिति मारीचि समादिश्यात्युत्कण्ठितः ससैन्योऽमिततेजः श्रीविजयप्रभृतयो व्योमयानेन द्रुतं सीमाद्रिमुपाययुः । तत्र च प्रथम ऋषभनाथविम्वं वन्दित्वा तदन्वचलमुनिं वन्दित्वा च तदग्रे निषेदतुः । मारीचिरपि च चमरचञ्चापुरीं प्रविश्याशनिघोषमातुः पार्श्वमुपेत्य कृतोपवासां सुतारां दृष्ट्वाऽशनिघोषमातुः सर्वं निवेदितवान् । साऽशनिघोषमाता चाऽपि तां सुतारामादायऽचलस्वामिसभायामागत्य न्यासीकृतामिव श्रीविजयाऽमिततेजसोः समर्पयामास । बलदेवं केवलिनमचलं नत्वा च मुदिता यथास्थानं निषसाद । तदा चाऽशनिघोषोऽपि सामवाक्येन श्रीविजयाऽमिततेजस क्षमयामास । ततः शान्तवैरेषु तेष्वचलस्वामी शुद्धिदायिनीं देशनां विदधे । I देशनान्ते चाऽशनिघोषोऽचलमुनिं वन्दित्वा कृताञ्जलिर्विज्ञपयामास - " मया सुतारा दुष्टेन मनसा नाऽपहृता, किन्तु पुरा चमरचश्चानगर्या भगवतो जयन्तस्य महामुनेरायतने गत्वा सप्तरात्रमुपोषितो भ्रामरीं विद्यामसाधयम् । ततः Jain Education national For Personal & Private Use Only **** ॥ ५३ ॥ Pahelibrary.org

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150