Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay, 
Publisher: Ek Shramanopasika

View full book text
Previous | Next

Page 55
________________ ॥५१॥ Ekkkkkkkk********* कुपितोऽमिततेजा उवाच-"तव भायों मे स्वसारं सुतारामपहृत्य स विद्याधराऽधमोऽशनिघोषः कियजीविष्यति?"। ततः सोऽककीर्तिसुतः श्रीविजयाय शस्त्रावरणों बन्धनी मोचनी च विद्यामदात् । तथा रश्मिवेगादीनां स्वपुत्राणां शतपञ्चशतीं त्रैपृष्टिना समं चमरचश्चायां पुर्यामशनिघोषतः सुतारामाहत्तु सद्यः प्राहिणोत् । त्रिपृष्ठतनयश्च श्रीविजयश्चमरचञ्चां प्राप्तवान् । तमशनिघोषमधिकविद्यं ज्ञात्वाऽमिततेजाः स्वपुत्रेण सहस्ररश्मिना साधे परविद्याच्छेदकरी महाज्वाला नाम विद्या साधयितुं हिमवन्तं गिरिं ययौ । तत्र च प्रतिमाजुषो जयन्तस्य मुनेर्धरणेन्द्रस्य च पादमूले मासिकभक्तेन स्थितः साप्तरात्रिकी प्रतिमा समुद्वहन विद्यासाधनकम हस्ररश्मिश्च तथास्थितं पितरं ररक्ष । एवं तयोस्तिष्ठतोः किश्चिदूनो मासोऽभूत् । इतश्च चमरचञ्चाया बहिः स्थितः श्रीविजयोऽशनिघोपाय दूतं प्राहिणोत् । स दूतश्च तत्र गत्वाऽशनिघोषमुवाच"सुतारामपहरता किमिदं लजाकरं कर्म त्वया कृतम् । तच्छ्रीविजयस्तव प्रतारणी विद्या कथमपि मोघीकृत्येहाऽऽयातो बलात्सुतारा नेष्यति, तत्स्वयमर्पय । तथैव त्वज्जीवितस्य कुशलम् । ततः क्रुद्धोऽशनिघोषो जगाद-"यथागतेनैव पथा स श्रीविजयः प्रयातु । सुतारां याचमानस्तु यमलोकमेव यास्यति । तदेतद् द्वयं विचार्य यातु तिष्ठतु वा । त्वमपि गत्वा तदग्रतो मद्वाचं समाख्याहि । तेनैवमुक्तश्च स इतस्तत्पुरावाहिनिर्गत्य त्रैपृष्ठये सर्व तद्वत्तान्तमकथयत् तच्छु त्वा चाऽत्यन्तं कुपितः श्रीविजयः स्वा सेना सजितामप्यसज्जयत् । अशनिघोषणाऽपि चाऽऽदिष्टास्तत्सुता अश्वघोषाद्याः सर्वाभिसारतश्चमर चश्चापुर्या द्वारि युद्धाय विनिर्ययुः। KXXX*****XXXXXXXXXXXXXX ॥५१॥ Jain Education International For Personal & Private Use Only Mahelibrary.org

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150