Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay,
Publisher: Ek Shramanopasika
View full book text
________________
118 11
प्रतिमाऽभिषिच्यताम् । तां च त्वामिव सर्वो जनः सप्ताहं सेविध्यते । दिव्यशक्त्योपसर्गश्चेन्न स्यात्तदपि सुन्दरम् स्याचेत्तदापि प्राणिवधपापं न भविष्यति” ततो युक्तमेतदिति प्रोच्य जिनमन्दिरं गतोऽहं दर्भासने कृतपौषधोऽस्थाम् ।
सप्तमे चदिने प्राप्ते प्रलयाम्बुदारुणे मेघे उन्नतेऽशनिस्तस्मिन् राज्येऽभिषिक्ते यक्षविम्बे पपात । यथा च तत्राऽशनिपातस्तथाऽन्तःपुरादिभिः कृता रत्नवस्त्रादिवृष्टिनैमित्तिकेऽप्यभवत् । ततो मया पद्मिनीखण्डपत्तनं दत्त्वा स नैमित्तिकवरो व्यसृज्यत । कुबेरस्याऽपि च नवां दिव्यरत्नमयीं मूर्त्तिं सद्योऽकारयम् । तन्मद्विघ्नशान्त्याऽमी पौरादयो महोत्सवं विदधते ।" तच्छ्रुत्वा हृष्टोऽमिततेजा निजां भगिनीं सुतारां वस्त्रालङ्कारदानेन पूजयामास । किञ्चित्कालं च तत्र तयोः पार्श्वेऽतिवाह्याऽमिततेजाः स्वनगरं ययौ 1
अथैकदा श्रीविजयः सुतारायाः सह क्रीडा कुतूहलाज्ज्योतिर्वनं नाम वनं ययौ । तदैव च तत्र कपिलजीवोऽशननिघोषो विप्रतारणिकां विद्यां प्रसाध्य विहायसा समागतः पूर्वजन्मभार्यां सुतारां ददर्श । प्राग्जन्मसंस्काराच तस्यामुत्कण्ठितो विद्याबलात्तयोः पुरः प्लवमानं हैमं हरिणं विचक्रे । दृष्टा च सुताराऽसौ मे क्रीडनकं स्यादिति स्वामिन् ! मृग आनीयतामिति पतिमब्रवीत् । तया चेत्थमुक्तः श्री विजयस्तं मृगमन्वधावन् तेन मृगेण विचित्रगत्या दूरमनीयत ततोऽशनिघोषः शनैः सुतारामभिसृत्याऽपाहरत् । तथा तेन प्रयुक्ता प्रतारणी विद्या च सुतारारूपमासाद्य सर्पदष्टा - मित्युचैः पूच्चक्रे । तच्छ्रुत्वा हरिण मुक्त्वा बलितः श्रीविजयस्ता भूमौ लुण्ठितां दृष्ट्वा मणिमन्त्रौषधादिभिरुपाचारीत् । किन्तु सा शिथिलभूतसर्वाङ्गा नृपतेः पश्यत एवाऽऽशु कालधर्ममियाय । ततश्च दुःखेन मूच्छितो नृपः पृथिव्यां पपात ।
Jain Education national
For Personal & Private Use Only
॥ ४६ ॥
relibrary.org

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150