Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay,
Publisher: Ek Shramanopasika
View full book text
________________
चकवट्टिस्सा
"पञ्चमः श्रीशान्तिनाथ - चक्रवर्तिचरितम्"
॥४८॥
EXXXXXXXXXXXXXXXXXXXX
गोलांश्चक्रे । स गोलः कृष्यमाणो यस्य करे यदा चटेत , स रक्षसे भक्ष्यभूतः पुररक्षायै प्रयाति । एकदा च तस्य ब्राह्मणपुत्रस्य गोलको निर्ययो। तदन्तश्च तन्नाम वाचितम् । तच्छुत्वा च तन्माता करुणस्वरं रुरोद । तद्गृहासन्नं चैकं महद्धृतगृहमासीत् । तद्भूतैश्च तस्याः कर्णदुःश्रवं क्रन्दितं शुश्रुवे । जातदयैश्च तैाह्मणी प्रोक्तम्-मा रोदीः, सुस्था भव, त्वत्पुत्रो रक्षसे यातु । राक्षसाऽग्रतोऽप्येनं त्वत्पुत्रमानेष्याभि । एष व्यवस्था नाऽतिक्रमिष्यति, ततो मरिष्यत्यपि न । ततो यावत्सा ता देवताः स्तौति, तावत्वरमाणा आरक्षास्तत्सुतमाकृष्य रक्षः समीपं निन्युः । राक्षसश्च यावद् द्विजपुत्रमादत्ते, तावद् भूतास्तमपहृत्य तन्मातुरन्तिकमानयन् । भीता ब्राह्मणी च भयानि पश्यन्ती रक्षाकृते तं पुत्रं तत्क्षणं गिरिगुहान्ताश्चिक्षेप स च द्विजपुत्रस्तत्रस्थेनाऽजगरेण जग्रसे। तद्वदन्यदपि भावि क्वचिदप्यन्यथा न भवति । तस्मादेष उपायो यत्सर्वैस्तप आचर्यताम् । यतो निकाचितानामपि कर्मणां तपसा क्षयो भवति ।
ततश्चतुर्थों मन्युवाच-अनेन पोतनप्रभोरुपरि विद्युत्पातः कथितो न श्रीविजयस्य । तत्सप्ताहं यावत्पुरेऽस्मिन् कोऽप्यन्यः पतिः क्रियताम् । ततश्च तत्राऽशनिः पतिष्यति । सर्वेषां च दुरितमनेन प्रकारेण गच्छतु । तच्छु त्वा हृष्टो नैमित्तिकस्तं मन्त्रिणं प्राशंसत् । मनिमित्तज्ञानतोऽपि तव मतिज्ञानमधिकम् । तदनर्थपरिहायामुपायमाशु कुरुध्वम् । राजाऽपि जिनपूजारतश्चैत्यस्थितस्तिष्ठतु । ततो मयाऽवोचि-को नरो राज्येऽभिषिच्यते ? । कथं निरागसः प्राणिनः प्राणनाशं चिन्तयामि ? सर्वस्य हि प्राणाः प्रिया दुस्त्यजाः । कथं च पश्यतो मे कोऽपि वराको विपत्स्यते । ततो मन्त्रिणोऽत्रुवन्-“देव । इदं कार्यद्वयं नोऽस्ति, यथा तवाऽनों यास्यति प्राणी च न विपत्स्यते तथाहि राज्ये कुबेरस्य
XXXXXXXX
॥४८॥
Jan Education rematon
For Persona & Private Use Only
inelibrary.org

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150