Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay,
Publisher: Ek Shramanopasika
View full book text
________________
* चकवट्टिस्स
"पश्चमः
XXXXXXXX
श्रीशान्ति
नाथ
चक्रवर्तिचरितम्"
KXXXXXXXXXXXXXXXXXXXXXXXX
प्रतीक्षस्व, यावदमिततेजसं निजराज्ये निवेश्य व्रतग्रहणार्थमहमागच्छामि।। प्रमादो न विधातव्य इति मुनिना शिष्टश्च स धामाऽऽगत्याऽमिततेजसं साग्रहं राज्ये निवेश्य तेन कृतनिष्क्रमणोत्सवोऽभिनन्दनमुनेः पुरः परिव्रज्यामुपादत्त । ततोऽक कीर्तिर्गरुजनेन समं व्रतं पालयन् भुवं विजहार । तेजस्थ्यमिततेजा अपि राज्यं शशास।
इतश्च त्रिपृष्ठे कालधर्मे प्राप्ते शुचा वैराग्यमुद्हन्नचलो बलभद्रः श्रीविजयं राज्ये न्यस्य प्रवत्राज। श्रीविजयश्च पित्र्यं राज्यं नीत्या पालयामास । एकदा चाऽमिततेजाः सुताराश्रीविजययोर्दर्शनोत्कण्ठितः पोतनपुरं ययौ । पताकामञ्चतोरणादिसमन्वितं सञ्जातानन्दसाम्राज्यं तन्नगरं राजकुलं च हृष्टं वीक्ष्य विस्मितो व्योमतोऽवातरत् । जयश्च दुरात्तं दृष्टाऽभ्युत्तस्थौ । ततः परस्परं श्वशुयौं तौ स्वसृपती च मिथो गाढं प्रीत्या सस्वजाते। ततस्तौ द्वावपि महार्हसिंहासने निषेदतुः। ततोऽमिततेजाः अत्र पुरे महोत्सवस्याऽधुना को हेतुरित्यपृच्छत् ततः श्रीविजयोऽवोचत्"इतः प्रागष्टमे दिने एको नैमित्तिक इहागात् । मया सादरमागमन हेतुं पृष्टश्च स जगाद-अस्मादः सप्तमेऽह्नि मध्याहसमयेऽशनिध्वनन् पोतनपुरेश्वरस्योपरि पतिष्यति, तदेतत्सूचयितुमहमागतोऽस्मि । सचिवं च तेन वचसा कुपितं दृष्टा पुनस्सोऽवोचव सचिव ! मह्यमा कुपः, एतच्छास्त्रदृष्टं वच्मि । तस्मिन् दिने मयि पुनर्वसुधारेव वस्त्राभरणादिवृष्टिः पतिष्यति । ततो मया सचिवोऽभिहितः अस्मै महामतये मा कुप्य । यतो यथार्थकथनादयमुपकारी। किन्तु तं पच्छ यदयं निमित्तं कुतः शिक्षितवानस्ति ?
ततो नैमित्तिकोऽवोचत्-परिव्रज्यां गृह्णता बलदेवेन सह शाण्डिल्यो नाम मे पिताऽपि परिव्रजितवान् । तदनु
*॥४६॥
For Personal & Private Use Only
wwsanelibrary.org
Jain Education rational

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150