Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay,
Publisher: Ek Shramanopasika
View full book text
________________
"पश्चमः
चकवाट्टिस्स
कहा"
श्रीशान्तिनाथ चक्रवर्तिचरितम्"
॥६६॥
एकावल्यादिकं तपश्च विदधानायाः शुक्लध्यानस्थितायाश्च तस्या एकदा घातिकर्मक्षयात्केवलमुत्पन्नम् । क्रमेण च भवोपग्राहिकर्माणि क्षपयित्वा सा कनकश्रीरव्ययं पदमाससाद । बलविष्णू चापि विविधान् भोगान भुञ्जानौ सुखमग्नौ कालं गमयामासतुः।
अथ बलदेवस्य विरताख्यायां दयितायां सुमति म कन्योत्पन्ना । वाल्यादेव सा जिनधर्मपरायणैकदोपवासान्ते पारणार्थ यावदुपविष्टा, तावत्कमपि मुनि द्वारागतं वीक्ष्य स्थालस्थापितान्नेन प्रतिलाभयति स्म। तदानीं च तत्र वसुधारादिकानि पञ्च दिव्यानि जज्ञिरे । मुनिरपि च ततः स्थानाद्विहुत्याऽन्यत्र जगाम । रत्नवृष्टिमाकण्यं तत्रागतो तां दृष्ट्वा विस्मितौ विस्मयजनकमेतस्याश्चारित्रमितिवादिनौ बलविष्णू कोऽमुष्या अनुरूपो वर इति चिन्तामग्नावीहानन्देन मन्त्रिणा मन्त्रयित्वा तस्याः स्वयम्बरमहोत्सवं निश्चिक्यतुः । वासुदेवाज्ञया च तत्र स्वयम्बरार्थं सर्वे नृपाः समाजग्मुः । ततः स्वयम्बरमण्डपे समुपविष्टेषु नृपेषु विलक्षणाऽलङ्कारनेपथ्या सुमतिः समागत्य स्वयम्बरमण्डपमद्राक्षीत् ।
तदानीमेव च तत्र मण्डपे देवतया रत्नसिंहासनस्थयाऽधिष्ठितं विमानमाविरभूत् । तद् दृष्टा सा सुमतिः सर्वे नपाश्च विस्मिता जाताः । तेषां पश्यतां च देवी विमानादवतीय मण्डपान्तरुपविश्य दक्षिणपाणिमुत्क्षिप्य सुमतिमचे "मुग्धे ! धनश्री ! बुध्यस्व, बुध्यस्व । प्राग्भवं स्मर । पुष्करद्वीपे प्राग्भरतस्य मध्ये श्रीनन्दनपुरे महेन्द्रनृप आसीत् । तस्य चाऽनन्तमतिनाम्नी पत्न्यासीत् । तया चैकदा निशाशेषे सुषुप्तया निजोत्सङ्गस्थिते पवित्रे पुष्पमाले स्वप्नो दृष्टः।
XXXXXXXXXXXXXXXXXXXXXXXX
Jain Educat
For Persona 3 Private Use Only
DAAIelibrary.org

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150