Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay, 
Publisher: Ek Shramanopasika

View full book text
Previous | Next

Page 40
________________ "श्री चक्कवट्टिस्स कहा" । श्रीसनकुमार चक्रवर्तिचरितम्" कन्याः पर्यणैषीत् । तत्प्रभृति च विद्याधरैः परिवृतो मदादिकाभिस्ताभिः सर्वाभिः कन्यकाभिः सुखं रममाणो यथेच्छ विषयसुखमनुभवन् तव सखा कालमनैषीत् । अधुना च क्रीडानिमित्तमेव हागतस्त्वया मिलितः। एवमुक्तवत्यां वकुलमत्यां रतिनिकेतनान्निर्गतः सनत्कुमारो महेन्द्रसिंहेन विद्याधरैश्च परिवृतो वैताढयाद्रिमगात् । यथासुखं कालं गमयंश्चैकदा महेन्द्रसिंहेन विज्ञापित:-"तवाऽनया महद्धर्था मम मनो नितरां मोदते । किन्तु त्वद्वियोगात्तौ पितरौ त्वां स्मारं स्मारं विषीदतः । तत्प्रसीद, हस्तिनापुरं नगरमभिगच्छावः।" तेन सख्या तथाऽभिहितः सोऽपि सोत्कण्ठो बलयुतैविद्याधराऽधिपशतैः परिवृतः समित्रः सकलत्रश्च सनत्कुमारो हस्तिनापुरं प्राप । तत्र च वियोगात्तौ पितरौ पौरांश्च निजदर्शनात्समानन्दयत् । ततोऽश्वसेननृपः स्वे राज्ये सनत्कुमारं तत्सेनाऽधिपत्ये च महेन्द्रसिंह निधाय श्रीमद्धर्मतीर्थकृतीर्थे स्थविराणामन्तिके परिव्रज्यां समादाय स्वार्थमसाधयत् । ___इतश्च सनत्कुमारस्य राज्यं परिपालयतः सतश्चतुर्दशचक्रादीनि महारत्नान्यजायन्त । ततः स चक्रमार्गाऽनुगः स्वयं षट्खण्डं भरतक्षेत्रं नैसर्यादीनिधींश्च दशभिवषेसहस्रः साधयित्वा हस्तिनापुरं प्राविशत् । तं च नगरे प्रविशन्तमवधिज्ञानतः शक्रः सौहृदात्स्वमिव वीक्षाश्चक्रे । ततः पूर्वजन्मन्यसौ मे बान्धव इति स्नेहवशाच्छको नगरं प्रविशतः सनत्कुमारस्याऽभिषेको विधीयतामिति कुबेरं समादिशत् । हारं शशिमालामातपत्रं चामरे मुकुटं कुण्डलयुगं देवदूष्यद्वयीं सिंहासनपादुके पादपीठं च शक्रः सनत्कुमारार्थं कुबेरस्य समार्पयत् । तिलोत्तमानारदादींश्च तदभिषेकाय समादिशश्च । ततः कुबेरस्तैः साधं हस्तिनापुरमेत्य सनत्कुमाराय शक्रादेशं निवेद्य तदनुज्ञात एकयोजनं माणिक्यपीठं KXXXXXXXXXXXXXXXXXXXXX KXXXXXXXXXXX ॥३६॥ Jain Educa t ional For Personal & Private Use Only W h elibrary.org

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150