Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay,
Publisher: Ek Shramanopasika
View full book text
________________
॥२१॥
XXXXXXXXXXXXXXXXX
ज्ञानोपयोगः कोपानलज्वालामालाकुलो ज्वलनप्रभ एवमचिन्तयत् , यदहो । एतेषां जह्न कुमारादीनां महापापानां मयै-* कवारमपराधः क्षान्तः, पुनरधिकतरमुपद्रवः कृतः, ततो दर्शयाम्येषामविनयफलम् । इहि ध्यात्वा ज्वलनप्रभेण तद्वधार्थ नयनविषा महाफणिनः प्रेषिताः, तैः परिखाजलान्तर्निगत्य नयनैस्ते कुमाराः प्रलोकिताः, भस्मराशीभूताश्च सर्वेऽपि सगरसुताः । तथाभूतांस्तान् वीक्ष्य सैन्ये हाहारवो जातः, मन्त्रिणोक्तमेते तु तीर्थरक्षां कुर्वन्तोऽवश्यभावितयेमामवस्था प्राप्ताः सङ्गतावेव गता भविष्यन्तीति किं शोच्यते ? अतस्त्वरितमितः प्रयाणं कियते, गम्यते च महाराजचक्रिसमीपम् । सर्वसैन्येन मन्त्रिवचनमङ्गीकृतम्, ततस्त्वरितप्रयाणकरणेन क्रमात्प्राप्तं स्वपुरसमीपे । ततः सामन्तामात्यादिभिरेवं विचारितं समस्तपुत्रवधोदन्तः कथं चक्रिणो वक्तुपायते ? ते सर्वे दग्धाः, वयं चाक्षताङ्गाः समायाता एतदपि प्रकामं त्रपाकरम् । ततः सर्वेऽपि वयं प्रविशामोऽग्नौ । एवं विचारयतां तेषां पुरः समायात एको द्विजः। तेनेदमुक्तम्-भो वीराः! किमेवमाकुलीभृताः? मुञ्चत विषादम् , यतः संसारे न किंचित्सुखम् , दुःखमत्यन्तमद्भुतमस्ति, भणितं च""कालंमि अणाईए, जीवाणं विविहकम्मवसगाणं । तं नत्थि संविहाणं, जं संसारे न संभवइ ॥१॥" १. कालेऽनादौ, जीवानां विविधकर्मवशगानाम् । तद् नास्ति संविधानं यद् संसारे न संभवति ॥ १॥
अहं सगरचक्रिणः पुत्रवधव्यतिकरं कथयिष्यामि । सामन्तादिभिस्तद्वचः प्रतिपन्नम् । ततः स द्विजो मृतं बालकं करे धृत्वा मुष्टोऽस्मीति वदन् सगरचक्रिगृहद्वारे गतः। चक्रिणा तस्य विलापशब्दः श्रुतः। चक्रिणा स द्विज आकारितः, केन मुष्टोऽसीति चक्रिणा पृष्टः । स प्राह-देव! एक एव मे सुतः सर्पण दष्टो मृतः, एतदुःखेनाहं विलपा
RXXX
॥२१॥
M
Jain Educati
otorary.org
o
For Personal & Private Use Only
nal

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150