Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay,
Publisher: Ek Shramanopasika
View full book text
________________
।। २५ ।।
स्थापितः स्वराज्ये । सगरचक्रवर्तिना श्रीअजितनाथतीर्थपतिसमीपे दीक्षा गृहीता । क्रमेण च कर्मक्षयं कृत्वा सगरः सिद्धः । अन्यदा भगीरथिना राज्ञा कश्चिदतिशयज्ञानी पृष्टः -- भगवन् ! किं कारणं यजह प्रमुखाः षष्टिसहस्रा भ्रातरः समकालं मरणं प्राप्ताः ९ ज्ञानिना भणितम् - - महाराज! एकदा महान् सङ्घश्चैत्यवन्दनार्थं सम्मेतपर्वते प्रस्थितः, अरण्यमुल्लङ्घ्यान्तिमग्रामं प्राप्तः । तन्निवासिना सर्वेणानार्यजनेनात्यन्तमुपद्रुतो दुर्वचनेन वस्त्रान्नधनहरणादिना च । तत्प्रत्ययं तद्ग्रामवासिलोकैरशुभं कर्म बद्धम् । तदानीमेकेन प्रकृतिभद्रकेण कुम्भकारेणोक्तम्, मोपद्रवतेमं तीर्थयात्रागतं जनम्, इतरस्यापि निरपराधस्य परिक्लेशन महापापस्य हेतुर्भवति, किं पुनरेतस्य धार्मिकजनस्य ९ यतो यद्येतस्य सङ्घस्य स्वागतप्रतिपत्तिं कर्तुं न शक्तास्तदोपद्रवं तु रक्षतेति भणित्वा कुम्भकारेण निवारितः स ग्रामजनः । सङ्घस्ततो गतः । अन्यदा तद्ग्रामनिवासिनैकेन नरेण राजसन्निवेशे चौर्यं कृतम् । ततो राजनियुक्तैः पुरुषैः स ग्रामो द्वारपिधानपूर्वकं ज्वालितः । तदा स कुम्भकारः साधुप्रसिद्धया ततो निष्कासितोऽन्यस्मिन् ग्रामे गतः । तत्र षष्टिसहस्रजना दग्धाः, उत्पन्ना विराटविषयेऽन्तिमग्रामे कोद्रवित्वेन । ताः क्रोद्रव्य एकत्र पुञ्जीभूताः स्थिताः सन्ति । तत्रैकः करी समायातः, तच्चरणेन ताः सर्वा अपि मर्दिताः । ततो मृतास्ते नानाविधासु दुःखप्रचुरासु योनिषु सुचिरं परिभ्रम्यानन्तरभवे किञ्चिच्छुभकर्मोपायं सगर चक्रिसुतत्वेनोत्पन्नाः । षष्टिसहस्रप्रमाणा अपि ते तत्कर्मशेषवशेन तादृशं मरणव्यसनं प्राप्ताः । सोऽपि कुम्भकारस्तदा स्वायुःक्षये मृत्वा एकस्मिन् सन्निवेषे धनसमृद्धो वणिग्जातः । तत्र कृतसुकृतो मृत्वा नरपतिः सञ्जातः । तत्र शुभानुबन्धेन शुभकर्मोदयेन प्रतिपन्नो मुनिधर्म शुद्ध ं च परिपाल्य ततो
मृत्वा सुरलोकं
Jain Educatimational
For Personal & Private Use Only
।। २५ ।
helibrary.org

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150