Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay, 
Publisher: Ek Shramanopasika

View full book text
Previous | Next

Page 21
________________ ॥१७॥ KXXXXXXXXXXXXXXXXXXXXXXX सुर्ययशा राज्ये स्वर्णयज्ञोपवीतानि, अन्ये च महायशः प्रभृतयः केचिद्राजतानि केचित्पसूत्रमयानि केचिच्च सूत्रमयानि यज्ञोपवीतानि चक्रिरे । यदा साधु विच्छेदो जातः तदा सुलसायाज्ञवल्क्यादिभिरनार्या वेदाः कृताः। एकदा भरतचक्रिणास्वामिनं पप्रच्छ "अत्र समवसरणे भवानिव कोऽपि तादृशोऽस्ति ?, यस्तीर्थ प्रवर्त्य भरतक्षेत्रं पावयिष्यति?" । भगवानाह-"तव पुत्रोऽयं प्रथमः परिव्राजको मरीचिराचरौद्रध्यानहीनः सम्यक्त्वयुक्तो रहसि धर्मध्यानं कुर्वन् सम्प्रति कर्ममलिनोऽपि शुक्लध्यानाच्छुद्धिमेष्यति । इहैव भरतक्षेत्रे पोतनाऽख्ये नगरे त्रिपृष्ठो नाम वासुदेवानां प्रथमो वासुदेवो भविष्यति । यः क्रमात्प्रत्यविदेहेषु मृकायां पुरि दाशार्हाणां प्रथमो धनञ्जयधारिण्योः पुत्रश्चक्री प्रियमित्रनामा भविष्यति । ततश्चिरं भवे संसृत्य भारते महावीरनामा चतुर्विशस्तीर्थकृद्भावी।" इति श्रुत्वा स्वाम्यनुज्ञामादाय भरतो वन्दितुं मरीचिमगात् । “त्वां त्रिपृष्ठं प्रियमित्रं वा न, ते इदं जन्म पारिवाज्यं वा न, किन्तु चतुर्विशं भाविनमहन्तं त्वां वन्दे" इति वाणो बद्धाञ्जलिपुटस्त्रि प्रदक्षिणीकृत्य भरतस्तं वन्दे । ततः प्रभु नत्वा भरतोऽयोध्या जगाम। तत्रस्थो मरीचिश्च तच्छु त्वा दर्पमागतस्त्रिःकरास्फोटपूर्वकमतिप्रमुदित एवं वक्तु प्रचक्रमे-“यद्यहं वासुदेवानां al प्रथमो विदेहेषु चक्री भारतेऽन्तिमोऽहंश्च भवितास्मी" त्येतावता पूर्ण मम । मम पितामहोऽर्हतामाद्यो मम पिता च चक्रिणामाद्योऽहं च वासुदेवानामाद्य इति मम कुलं सर्वश्रेष्ठम् ।" एवमात्मकुलाभिमानं कुर्वाणेन तेन स्वकीयं नीचगोत्रमुपार्जितम् । XXXXXXXXXXXXX Welibrary.org Jain Educati o nal For Personal & Private Use Only

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150