Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशसहिता ।
द्विविधम् । पराक्प्रत्यगिति । अजडं परागपि तथा । नित्यविभूतिर्धर्मभूतज्ञानं चेति । प्रत्यगपि द्विविधः । जीवेश्वरभेदात् । जीवस्त्रिविधः । बद्धमुनित्यभेदात् । बद्धो द्विविधः । बुभुक्षमुमुक्षुभेदात् । बुभुक्षुद्विविधः | अर्थकामपरो धर्मपरथेति । धर्मपरो द्विविधः । देवतान्तरपरो भगवत्परचेति । मुमुक्षुद्विविधः । कैवल्यपरो मोक्षपरश्चेति । मोक्षपरो द्विविधः । भक्तः प्रपन्नचेति । प्रपन्नो द्विविधः । एकान्ती पर मैकान्ती चेति । परमैकान्ती द्विविधः । दृप्तार्त्तभेदात् । पञ्चधाऽवस्थित ईश्वरः । परव्यूहविभवान्तर्याम्पचवतारभेदात् । पर एकधा । व्यूहश्चतुर्धा । वासुदेवसंकर्षणप्रधुम्नानिरुद्धभेदात् । केशवादि व्यूहान्तरम् । मत्स्यादयो विभवाः पुनरनन्ताश्च । अन्तर्यामी प्रतिशरीरमवस्थितः । अर्चावतारस्तु श्रीवेङ्कटा द्रिस्तिगिरिया दवाद्विघटिकाचलादिषु सकलमनुजनयनविषयतां गतो मूर्तिविशेषः । अद्रव्यं तु सत्वरजस्तमः शब्दस्पर्शरूपरसगन्धसंयोगशक्ति भेदाद्दशैव ।
एवमुपदिष्टानामुद्देशक्रमेण लक्षणपरीक्षे क्रियेते । तत्र प्रमाकरणं प्रमाणम् । प्रमाणं लक्ष्यम् । प्रमाकरणत्वं लक्षणम् । यथावस्थितव्यवहारानुगुणज्ञानं प्रमा । प्रमा लक्ष्यम् । यथावस्थितव्यवहारानुगुणज्ञानत्वं लक्षणम् । ज्ञानं प्रमेत्युक्ते शुक्तिकायामिदं रजतमिति ज्ञानेऽतिव्याप्तिरत उक्तं व्यवहारानुगुणमिति । एवमपि तत्रैवातिव्याप्तिर्भ्रान्तिदशायामपीदं रजतमिति व्यवहियमाणत्वात् । अत उक्तं यथावस्थितमिति । यथावस्थितपदेन संशयान्यथाज्ञानविपरीतज्ञानव्यावृत्तिः । धर्मिग्रहणे मिथोविरुद्धानेकविशेषस्मरणं संशयः । यथोर्ध्वताविशिष्टे स्थाणुर्वा पुरुषो वेति ज्ञानम् । अन्यथाज्ञानं नाम धर्मविपर्यासः । यथा कर्तृस्वेन भासमान आत्मनि कुयुक्तिभिः कर्तृत्वस्य भ्रान्तत्वोपपादनम् । विपरीतथा द्विविधम् ।
१ म. 'नन्ताः । अ° । २ ग रङ्गादिषु । ३ ग. गुगंज्ञा । ५ क. ख. ग. 'विशेषे स्था ।
For Private And Personal Use Only
-
उद्देशक्रमेणेति । नाम्ना पदार्थसंकीर्तनमुद्देशः । लक्षणेति । अव्याप्तयतिव्याप्तयसंभवरूपदोषत्रयरहितधर्मवचनं लक्षणम् । यथालक्षितस्यैतल्लक्षणमुपपद्यते न वेति विचारः परीक्षा । यथावस्थितेति । अवस्थितं वस्त्वनतिक्रम्य यो व्यवहार 'इदममुकं वस्तु' इत्यादिस्तदनुगुणं तदुपयोगि ज्ञानमित्यर्थः । यथावस्थितेति ज्ञानविशेषणं वा । धर्मविपर्यास इति । पीतः शङ्ख इतिवत् । कर्तृत्वेन भासमान इति । स्वर्गापवर्गसाधनानुष्ठानविधानशास्त्राणामर्थवत्त्वाय कर्तेवाऽऽत्मेति मन्तव्यम् । प्रकृतेः कर्तृत्वे मोक्षसाधनभूतसमाध्यभावश्च स्यात् । प्रकृतेरन्योऽस्मीति समाधौ प्रकृतेः कर्तृत्वायोगात् ।
·
• ख. घ. स्थितेतिप° ।

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 126