Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशसहिता। संकर्षणः। ऐश्वर्यवीर्याभ्यां प्रद्युम्नः। शक्तितेजोभ्यामनिरुद्ध इति गुणविभागः । एतेषु चतुर्पा प्रत्येकं त्रयस्त्रयोऽवतीर्णाः केशवादयो व्यूहान्तराणि दादशमासाना द्वादशादित्यानां चाधिदैवतानि । ऊर्ध्वपुण्ड्रेषु तेषामेव स्थानं विधीयते । तत्र टितघटनासामर्थ्य वा । बलं जगत्कारणत्वप्रयुक्तश्रमामावः समस्तवस्तुधारणसामर्थ्य वा । ऐश्वर्य कर्तृत्वलक्षणं स्वातन्त्र्यं समस्तवस्तुनियमनसामयं वा । वीर्य जगदुपादानत्वेऽपि स्वरूपविकाराभावः । तेनः सहकारिनैरपेक्ष्यं पराभिभवनसामर्थ्य वेति ज्ञेयम् । संकर्षण इति । ज्ञानबलाभ्यां पूर्ण इत्यर्थः । संकर्षण ऐश्वर्यादिगुणचतुष्टयसद्भावेऽपि ज्ञानबलरूपं गुणद्वयमेव प्रकाशते । तस्याधिकृतकार्यानुगुणत्वात् । एव. मोऽपि । तदुक्तम् -
निगृहनं चतुष्काणां द्वंद्वानां च प्रकाशनम् ' इति । एतेन मोहनशक्तया मनुष्यादितनातीयशङ्कास्पदेषु विभवेष्वपि हि सिद्धं षाड्गुण्यं किमुत व्यूहेष्विति सर्वेषां व्यूहानां षड्गुणाश्रयत्वेन गुणद्वयोक्तिरयुक्तेत्यपास्तम् । गुणद्वयोक्तेः प्रकाशितगुणाभिप्रायकत्वात् । संकर्षणादीनां कार्य च तत्त्वत्रये प्रतिपादितम्-'तत्र संकर्षणो ज्ञानवलाभ्यां युक्तो जीवतत्त्वमधिष्ठाय तत्प्रकृतेविविच्य प्रद्युम्नावस्थां प्राप्य शास्त्रप्रवर्तनं जगत्संहारं च करोति । प्रद्युम्न ऐश्वर्यवीर्याभ्यां युक्तो मनस्तत्त्वमधिष्ठाय धर्मोपदेशं मनुचतुष्टयप्रभृतिशुद्धवर्गसृष्टिं च करोति । अनि-" रुद्धः शक्तितेजोभ्यां युक्तो रक्षणस्य तत्त्वज्ञानप्रदानस्य कालसृष्टेमिश्रसृष्टेश्च निर्वाहकः' इति । स्मृतावपि
'बलेन हरतीदं स मुणेन निखिलं मुने । ज्ञानेन तनुते शास्त्रं सर्वसिद्धान्तगोचरम् ॥ ऐश्वर्येण गुणेनासौ सृजते तच्चराचरम् । वीर्येण सर्वधर्माणि प्रवर्तयति सर्वशः ॥ शक्तया जगदिदं सर्वमनन्ताण्डं निरन्तरम् । बिभर्ति पाति च हरिमणिप्तानुरिवाणुकम् ॥
तेजसा निखिलं तत्त्वं ज्ञापयत्यात्मनो मुने ' इति । स संकर्षणः । असौ प्रद्युम्नः । हरिरनिरुद्धः । तथा च संकर्षणस्य कार्य शास्त्रप्रवर्तनं संहारश्च । प्रद्युम्नस्य धर्मनयनं सृष्टिश्च । अनिरुद्धस्य तत्त्वगमनं रक्षणं चेति । अत्राऽऽद्यव्यूहस्य वासुदेवस्य षड्गुणतयाऽनुसंधेयत्वात्तस्य परस्मादभेदं विवक्षित्वा कचि. त्रिन्यूहो देव इत्युक्तमिति न तद्विरोध इति बोध्यम् । प्रत्येकमिति । केशवनारायणमाधवरूपं त्रयं वासुदेवाद्विमान्यते । गोविन्दविष्णुमधुसूदनरूपं त्रयं संकर्षणात् ।
For Private And Personal Use Only

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126