Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram

View full book text
Previous | Next

Page 101
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ९२ यतीन्द्रमतदीपिका र्णात्मकचति । अकचटतपयादिविशिष्टपञ्चाशदक्षरात्मको वर्णात्मकः । देवमनुष्यादीनां ताल्वादिव्यङ्ग्यः । भेर्यादिजन्योऽवर्णात्मकः । एवंभूतः शब्दः श्रोत्रेन्द्रियेण गृह्यते । श्रोत्रेन्द्रियगमनाद्व्यञ्जकवाय्वागमनाद्वा शब्दग्रहः । ननु श्रुत्या शब्दस्य द्रव्यत्वं प्रतीयते । अद्रव्यत्वं कथमिति चेन्न । अकारादेः 'प्रणवोत्पादकत्वं वाच्यद्वारा संभवतीति परिहारादद्रव्यत्वमुपपद्यते। इति शब्दः । <labe Acharya Shri Kailassagarsuri Gyanmandir शब्दादयो वर्तन्त एव । ते च सर्वोत्कृष्टाः सर्वातिशायिनश्च । यथा कस्तूरीचम्पकप्रभृतिषु गन्धसाम्ये सत्यपि सौरभविशेषस्तत्रतत्रोपलभ्यते, तथा लीलाविभूतौ नित्यविभूतौ च शब्दादिसद्भावेऽपि प्रमाणसिद्धं वैषम्यमनतिलङ्घनीयमेव । न हि वीणावेणुप्रभृतीनामेकरूप्येण स्वरनियम इति । पञ्चाशदिति । स्वराः षोडश । कादयः स्पर्शाः पञ्चविंशतिः, यरलवशषसह इत्येतेऽष्टौ । क्षवर्णश्चैकः । तस्य संयुक्तत्वेऽपि मातृकापाठे पृथग्गणनात् । ळकारस्तु न पृथगणितः । मातृकापाठे लळयोरभेदात् । ननु दूरस्थशब्दस्य कथं श्रोत्रेन्द्रियसंनि• कर्ष इति चेत्तत्राऽऽह — श्रोत्रेन्द्रियेति । तदुक्तं वरदनारायणमहारकैः — ' दूरे शब्दः समीपे च प्राच्यां चेत्यादिदर्शनात् । गत्वा श्रोत्रेन्द्रियं तत्र ततः शब्दग्रहक्षमम् ' इति । व्यञ्जकेति । शब्दाधारमेर्याद्यवयवागमेन शब्दाधारवाय्वागमनेन वा दूरस्थशब्द. ग्रह इत्यपि केचित् । ननु श्रुत्येति । भूरित्येव ऋग्वेदादजायत भुव इति यजुर्वेदास्व • रिति सामवेदात्तानि शुक्राण्यभ्यत पत्तेभ्योऽमिततेम्यस्त्रयो वर्णा अजायन्त, अकार उकारो मकार इति तानेकधा समभरत्तदेतदोमिति ( ऐ० ब्रा०अ०२९ख०७ ) इति हि श्रुतिः । स्मृतिरपि - ' अकारं चाप्युकारं च मकारं च प्रजापतिः । वेदत्रयान्निरदुहद्भूर्भुवः स्वरितीति च ' इति । अत्राकारादिवर्णानां प्रणवोपादानकारणत्वप्रतिपादनेन द्रव्यत्वमन्तरेणोपादानकारणत्वासंभवेन द्रव्यत्वं सिध्यति यस्य वेदाः शरीरमिति श्रुतौ च शब्दात्मकवेदस्य शरीरत्वप्रतिपादनेन शरीरत्वस्य च द्रव्यत्वव्याप्यत्वेन शब्दस्य द्रव्यत्वं सिध्यतीत्याशयः । प्रयोगश्च - शब्दो द्रव्यम्, साक्षादिन्द्रियसंबन्धेन गृह्यमाणत्वाद्धटवदिति । वाच्यद्वारेति । तथा च वाच्यस्योपादानकार• णत्वेन द्रव्यत्वेऽपि वाचकस्य शब्दस्य द्रव्यत्वे मानाभावः । " यस्य वेदाः शरीरम् ' ( बृ० ३ । ७ । ३ ) इति तु देवताविशेषविषयत्वेनोपपद्यते । साक्षादिन्द्रियसंबन्धेन गृह्यमाणत्वमिति हेतुस्तु स्वरूपासिद्धः । शब्दस्याऽऽश्रयद्वारैवेन्द्रियसंनिकर्षात् । न च १. "ते । ननु । २ घ 'वोपपाद । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126