Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram

View full book text
Previous | Next

Page 107
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९८ यतीन्द्रमतदीपिकाज्ञानविततिरूपत्वेन ज्ञानान्तर्भावस्योक्तत्वात, धर्माधर्मयोरपीश्वरपीत्यप्रीतिरू. पत्वेनेश्वरज्ञानेऽन्तर्भावात, भावनाख्यसंस्कारस्य ज्ञानविशेषरूपत्वात् ,वेगोत्पा. सुख १३ दुःखे १४ इच्छा १५ द्वेषौ १६ प्रयत्ना १७ श्च गुणाः ' ( क. सू. १।१।६) इति सूत्रे सप्तदश गुणा उक्तास्तथाऽपि तत्सूत्रस्थचकारेणानुक्तसमुच्चयार्थकेन गुरुत्व १८ द्रवत्व १९ स्नेह २० संस्कार २१ धर्मा २२ धर्म २३ शब्दा२४ नां संग्रह इत्युपस्कारविवृत्योरुक्तत्वाच्चतुर्विशतिप्रकारा इत्युक्तम् । ज्ञानान्तर्भावस्येति । अत एवाऽऽहः 'इच्छाद्वेषप्रयत्नादिशब्दै/रभिधीयते । अर्थभेदानुविद्धास्ते धीविशेषाः प्रकीर्तिताः' इति । . इच्छादिहेतुभूतानुकूलादिविषया बुद्धिरेवेच्छादिव्यवहारमातनोति । तदतिरिक्तकरुपने न कोऽपि लाभः । गौरवदोष एव लभ्यते । न च ज्ञानेच्छादीनां पर्यायत्वं स्यादिति वाच्यम् । यथा ज्ञानत्वाविशेषेऽपि प्रत्यभिज्ञास्मृत्यनुमित्यनुभवादिभेदेषु न पर्यायत्वं तद्वदत्रापि वक्तुं शक्यत्वात् । अन्यथेाभ्यसूयाभयधृतिकरुणाशान्तितुष्टयादिव्यवहाराणामपि विषयलाभार्थमर्थान्तरं करप्यं स्यात् । यद्यपि पादयो दुःखमित्यादिव्यवहारात्सुखदुःखयोः शरीरधर्मत्वं प्रतीयते तथाऽपि तदौपचारिकम् । मृतशरीरेऽनु. पलम्भात् । तथा च तयोरात्मधर्मत्वेन धीविशेषत्वमुपपन्नम् । धर्माधर्मयोरिति । चिरध्वस्तस्य कर्मणः कालान्तरमाविफलानुगुणं किमपि द्वारमदृष्टाख्यमुपादेयम् । तच्चान्तः. करणपरिणतिरिति सांख्याः । चेतसो वासनेति सौगताः । पुंधर्म इति न्यायवादिनः । विभुरूपं किमपि तत्त्वान्तरमिति जैनकदेशिनः । पुद्गलरूपमिति तत्सयूथ्याः । एतच्चि. न्त्यम् । प्रमाणाभावात् । गौरवाच्च । किं तु तत्तत्कर्माचरणपरिणतेश्वरबुद्धिविशेष एवादृष्टम् । अत एव ' स एवैनं भूतिं गमयति ' (तै. सं. २०१।१ ) ' एनं प्रीतः प्रीणाति ' (ते. सं. ५७४ ) ' एष ह्येव साधु कर्म कारयति तम् ' ( को. ३८) ‘क्षिपाम्यजस्त्रमशुमान् ' (गी. १६ । १९) इत्यादिष्वीश्वरप्रीतिकोपाभ्यां फलप्राप्तिरभिधीयते । एतेन शरीरादिकं भोक्तविशेषगुणप्रेरितभूतपूर्वकं तद्भोगसाधनत्वात्स्नगादिवदिति सिद्धे ज्ञानाद्यनुपपत्तः परिशेषाजीवसमवेतादृष्टसिद्धिरिति वैशेषिकाद्युक्तमपास्तम् । अस्मदुक्तादृष्टादेव नियमोपपत्तविपक्षे बाधकाभावात् । ज्ञानविशेषेति । संस्कारो हि धर्मभूतज्ञानस्यावस्थाविशेषः । स्मृत्यादिवत् । ज्ञानस्य द्रव्यत्वेन तस्यावस्थावत्त्वमुपपद्यते । तत्राऽऽत्मा निर्विकारः । धर्म. भूतज्ञानं तु सविकारम् । तच्चाऽऽत्मनो नित्यासाधारणधर्मः । तेन धर्मभूतज्ञानगताः सर्वे विकारा ज्ञानद्वारा ज्ञानाश्रयात्मपर्यन्तं व्यवह्रियन्त इत्याहुः । वेगोत्पादकेति । शीघ्र गच्छतीत्यादिषु कर्मातिशयविशेषादितरो वेगो नाम कश्चिद्गुणो नोपलभ्यते । अतिरिक्तवेगवाद्यपि कर्मभेदाद्वेगभेदं कथयति । तथा च यादृशकर्मभेदाद्वेगभेदः परिक For Private And Personal Use Only

Loading...

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126