Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशसहिता। द्रव्यत्वाद्धटवदित्यादिभिर्विभुसंयोगसिद्धिः । अथ शक्ति:-सर्वकारणानां कारणत्वनिर्वाहकः कश्चिदद्रव्यविशेषः शक्तिः । तांगमाभ्यां तरिसद्धः । प्रतिबन्धकमणिमन्त्रादिसंनिधौ स्वरूपसहकारिवैकल्याभावेऽपि यदुपरोधाइ. हनो न दहति साह्यतीन्द्रिया शक्तिः । अयस्कान्तादिषु तत्मसिदिः । सा शक्तिः षड्व्य त्तिः । भगवनिष्ठत्वं पुराणरत्नादिषु प्रसिद्धम् । एवं सर्वत्रापीति शक्तिर्नाम धर्मविशेषः सिद्धः।।
ननु चतुर्विंशतिप्रकारा गुगा इत्युक्तत्वात्कथं दशैवेति निर्दिश्यत इति घेदुच्यते-जीवात्मविशेषगुणानां बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नानां षण्णां
किं च यथा मूर्तगतविकारविशेषप्तिद्ध्यर्थ विभुसंयोग उक्तस्तथैव काला. दिगतविकारसिद्ध्यर्थमपीश्वरसंयोगोऽवश्याभ्युपेयः । अन्यथेश्वरशरीरत्वमपि कालादेने स्यात् ।
वांगमाभ्यामिति । तत्र तर्कमाह-प्रतिबन्धकेति । आगमस्तु- 'शक्तयः सर्वभावानामचिन्त्या अपृथविस्थताः ।
( अहि. सं.) इत्यादिष्टव्यः । अयस्कान्तादिष्विति । आदिना दुन्दुमिस्व. नादयः । ननु शक्तिः शक्तिविशिष्टा न वा । नाऽऽद्यः। तस्या अपि शक्तः शक्तिविशिष्टत्वेनानवस्थापातात् । नान्त्यः । तथा सति तस्याः कारणत्वं न स्यात् । अशक्तत्वात् । अन्यथा सिकताभ्योऽपि तैलमुत्पद्यतेति चेन्मैवम् । शक्त्यन्तराभावेऽपि कारणानां कार्यानुगुण्यरूपतया तस्याः सिद्धत्वात् । अन्यथोष्णत्वमुष्णं न वा । आयेऽनवस्था । अन्त्ये कार्य न जनयेच्छीतवदित्यादिप्रसनात् । षड्द्रव्य वृत्तिरिति । तदुक्तमात्मसिद्धौ (पृ० ११ ) सर्वद्रव्येषु तत्कार्यसम. विगम्यस्तत्प्रतियोगिशक्त्याख्यो गुणः साधारण इति । न चाद्रव्येषु रूपरसादिषु शक्त्यमावेन कथं तेषां कारणत्वमिति वाच्यम् । रूपरसायधिकरणीभूतद्रव्यनिष्ठयैव शक्त्या रूपादिसमानाधिकरणया तेषां शक्तत्वात् । केचित्तु रूपादिष्वपि शक्तिमि. च्छन्ति । पुराणरत्नादिष्विति । तदुक्तं विष्णुपुराणे ( १।३।२)
'शक्तयः सर्वभावानामचिन्त्यज्ञानगोचराः । यतोऽतो ब्रह्मणस्तास्तु सर्गाद्या भावशक्तयः ॥
भवन्ति तपतां श्रेष्ठ पावकस्य यथोष्णता ' इति । चतुर्विशतिप्रकारा इति । यद्यपि 'रूप १ रस २ गन्ध ३ स्पर्शाः ४ संख्या ६ परिमाणानि ६ पृथक्त्वं ७ संयोग ८ विभागौ ९ परत्वा १० परत्वे ११ बुद्धयः१२
ग. त्रापि शक्तिनामकध' । घ, पत्र।
For Private And Personal Use Only

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126