Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यतीन्द्रमतदीपिकाविभागोऽपि संयोगाभाव एव न पृथग्गुणः । __ अकार्यसंयोगस्तु विभुद्रव्ययोः। अजद्रव्यसंयोगः श्रुत्याऽङ्गी क्रियते । अनुमानादप्यजसंयोगसिद्धिः । यथा विभुद्रव्यं विमुद्रव्यसंयोगवद्रव्यत्वाद्धट. वत् । विभुद्रव्यमीश्वरसंयुक्तं द्रव्यत्वाद्धटवत् । ईश्वरः कालादिसंयुक्तः,
विभागोऽपीति । परस्परसंयुक्ते द्रव्यद्वये विद्यमाने सति समुपनतो यः संयोगनाशः स एव विमागव्यवहारविषयः । न तु नैयायिकाभ्युपगतो विमागो नाम कश्चिहुणोऽस्ति । न च संयोगविनाशकत्वेन विभागः स्वीकार्य इति वाच्यम् । विभागकारणत्वेन कल्पिताकर्मण एव संयोगनाशोपपत्तेः । न च संयोगनाशे जातस्य संयोगनाशस्याविनाशित्वेन पुनः संयोगेऽपि विभक्तप्रत्ययः स्यादिति वाच्यम् । स्वन्मते विभागाभावेन विभक्तप्रत्ययामावेऽपि संयोगनाशस्य सत्त्वेनासंयुक्तप्रत्ययप्रसङ्गात् । अथ पुनर्जातः संयोगोऽसंयुक्तप्रत्ययप्रतिबन्धक इति चेत्स एव विमक्तप्रत्ययस्यापि प्रतिबन्धकोऽस्तु । न च संयोगजनकस्य कर्मणः संयोगनाशजनकत्व. मनुपपन्नमिति वाच्यम् । रूपादिजनकतयाऽभ्युपगतस्याग्निसंयोगस्य रूपादिनाशकस्वाभ्युपगमात् । ननु सिद्धान्तेऽभावस्य मावान्तररूपत्वेन संयोगनाशः किं. स्वरूप इति चेदुच्यते-उत्तरदेशसंयोग एव पूर्वदेशसंयोगनाशः । उत्त. रदेशसंयोगस्य पूर्वदेशसंयोगेन सह विरोधादुत्तरदेशसंयोग एव पूर्वदेशसंयोगविरुद्धत्वेनाऽऽलोचितः पूर्वदेशसंयोगनाश इति परिस्फुरति । न चोत्तरदेशसंयोगस्य भावरूपेण प्रतीतिः कथमिति वाच्यम् । द्विविधा द्युत्तरदेशसंयोगप्रतीतिः । ज्ञातपूर्वदेशसंयोगस्य तद्विरुद्धत्वनैका । स्वरूपेण चापरा । तत्र ये स्वरूपेण प्रतिपद्यन्ते ते भावरूपेणाभिमन्वते । ये पुनः पूर्वदेशसंयोगविरुद्धत्वेन प्रतिपद्यन्ते ते त्वमावरूपेणेति बोध्यम् ।
विभुद्रव्ययोरिति । तयोरसंयुक्तत्वे तु सान्तरत्वप्रप्तङ्गः । न च निरवयवस्य विमुद्रव्यस्य कथं संयोगः । संयोगस्यैकदेशवर्तित्वसामादिति वाच्यम् । औपाधिकांशभेदकृप्त्या तन्निर्वाहात् । ननु संयोगस्यान्यतरकोभयकर्म वा हेतुः । तदभावेन विभुद्रव्ययोर्न संयोग इति चेन्न । विभुद्रव्यसंयोगस्य नित्यत्वेन कारणसापेक्षत्वाभावात् । श्रुत्येति । ' सर्वव्यापी च भगवान् ' (श्वे०३।११) ' अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः' (ना०११।६ ) इत्यादिश्रुतयो द्रष्टव्याः । कालादिसंयुक्त इति । न च कालसंयोगे कालकार्यत्वप्रसङ्ग इति वाच्यम् । तस्यापि तदधीनविकारत्वात् । तदुक्तम्
'कालः संपच्यते तत्र न कालस्तत्र वै प्रभुः' इति ।
-
१व. भागः पिण्डस'।
For Private And Personal Use Only

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126