Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram

View full book text
Previous | Next

Page 103
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यतीन्द्रमतदीपिका भास्वराभास्वरभेदात् । तेजोगतं भास्वरम् । क्षितिसलिलगतं चाभास्वरम् । एवं चत्वार्येव रूपाणि । तेन चित्रं नाम पञ्चमं रूपमिति मतनिरास:। अत एव चित्रगन्धस्पर्शरसानामपि निरासः । इति रूपम् । अस्मदादिजिलैकग्राह्यविजातीयेतरो रसः । स पोढा-मधुरामललवणकटुक. पायतिक्तभेदात् । तत्रेक्षुक्षीरगुडादिरसा मधुरभेदाः । चूतचिश्चामलकादिरसा आम्लाः । सैन्धवोषरविकारा लवणभेदाः । किंपाकनिम्बादिरसाः कटुभेदाः । हरीतकीबिभीतकचूताङ्कुरादिरसाः कषायभेदाः । शुण्ठीमरीचिस. पंपादिरसास्तिक्तभेदाः । इति रसः। अस्मदादिघाँणग्राह्यविजातीयेतरोऽद्रव्यविशेषो गन्धः । स च द्विविधःसुरभिरसुरभिश्चेति । पाटीरमृगमदघुसृणचम्पकादिगन्धाः सुरभिभेदाः । अयं च गन्धः पृथिव्येकवर्ती पाकभेदाद्भिन्नः । पवनसलिलादिषु गन्धोप. लम्भः पार्थिवसङ्गादयो दहतीतिवदौपचारिकः । पञ्चीकरणप्रक्रियया सर्व भूतेषु सर्वभूतगुणानां विद्यमानत्वेऽपि प्राधान्याभिप्रायेणोक्तमिति न विरोधः । पाकागुणान्तरोत्पत्तिः स्वाश्रयनाशाभावादेवोपपत्तेः पीलुपीकवादिमतनिरासः । इति गन्धः। इतिश्रुतौ त्रयाणामेव रूपाणां प्रतिपादनादिति भावः । तेजोगतमिति । तेजसि रूपं रक्तभास्वरम् । सलिले तु शुक्लभास्वरम् । पृथिव्यां बहुविधममास्वरम् । यद्यपि मन्त्रशास्त्रे पीता भूमिः श्वेतमम्भो वह्निपवनौ रक्तधूम्रो धौनीलेति पञ्चानामपि भूतानां रूपवत्त्वं दृश्यते तथाऽपि तत्केवलं ध्यानार्थमेव । यथा तत्र मन्त्रवर्णानामपि रूपं ध्यानाथं वर्णितं तद्वत् । अन्यथा 'यदग्ने' इत्युक्तश्रुतिविरोधः । अनुभवविरोधश्च । चतुर्विधस्यापि रूपस्य पृथिव्यामुपलम्मात् । श्रुतौ पृथिव्याः कृष्णरूपोक्तिस्तु न रूपान्तरविरहपरा । कलुषजलादौ वर्णभेदस्तु पृथिवी संसर्गविशेषादेव । चित्रमिति। यत्तु नैयायिकाश्चित्रमिति किमपि रूपान्तरमस्ति । भन्यथा श्वेतपीताद्यनेकतन्त्वारब्धपटस्य नीरूपत्वेनाप्रत्यक्षप्रसङ्गादित्याहुः । तन्न । भवयवातिरिक्तस्यावयविनोऽभावात् । अवयवेषु च श्वेतादेरेकैकस्यैवोपलम्मात् । सुरभिभेदा इति । एतदुत्तरं पूतिविनादिगन्धा असुरभिभेदा इति पाठः । पीलुपाकेति । पीलवः परमाणवस्तेष्वेव पाको न त्ववयविनीति वैशेषिकाः । अवय. , क. ख. °सः । अस्म । २ घ. चित्ररसगन्धादिस्पर्शानामपि। ३ ग. दिरसनेन्द्रियप्रा'। ४ क. कारभेदा लव । ग. कारादिरसा लव । ५ स. ठोमिरिची स'। ६ ग. दाः । अस्म । ७ स. 'घ्राणेन्द्रियग्रा । ८ प. ग. °स द्वि' । ९ घ. भेदाभन्नः । १० ग. घ. °वसंसर्गाद। ११ ग. घ. गु। १२ ख. 'वोत्पत्तेः । १३ ग. 'पाकादिम । घ. पाकम । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126