Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram

View full book text
Previous | Next

Page 102
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशसहिता। अस्मदादिस्पर्शनेन्द्रियग्राह्यविजातीयव्यावृत्तमद्रव्यं स्पर्शः। स च त्रिविध:शीतोष्णानुभयात्मकभेदात् । अप्सु शीतस्पर्शः । तेजस्युष्णस्पर्शः । क्षितिषवनयोरनुष्णाशीतस्पर्शः । स च पुनाविधः-पाकजोऽपाकजश्चेति । पृथिव्यां पूर्वः । इतरेषु त्रिवितरः । तत्रामृतगरलतूलोपलगोब्राह्मणचाण्डालादिस्पर्शविशेषो अपाकजभेदाः । इति स्पर्शः। ___ अस्मदादिचक्षुरिन्द्रियैकग्राह्यविजातीयव्यावृत्तमद्रव्यं रूपम् । तच्चतुर्विधम्श्वेतरक्तपीतकृष्णभेदात् । तत्र सलिलकलधौतशङ्खशुक्तिशशाङ्कादीनां रूपविशेषाः श्वेतभेदाः । हुतवहजपादाडिमबन्धुजीवविद्रुपपद्मरागादीनां तु रूपविशेषा रक्तभेदाः । काञ्चनहरितालहरिद्रादीनां रूपविशेषाः पीतभेदाः । मरकतमधुकरजलधरतिमिरतमालदूर्वादीनां कृष्णभेदाः। पीतमपि रक्तावान्तरभेदं केचिदिच्छन्ति । श्रुत्यनुसारात् । प्रकारान्तरेण रूपं द्विविधम् - श्रोत्रेन्द्रियस्याऽऽकाशस्वरूपत्वात्तेन साक्षादेव शब्दस्य संनिकर्ष इति वाच्यम् । श्रोत्रेन्द्रियस्याऽऽकाशत्वायोगात् । अस्मदादीति । अस्मदादिस्पर्शनेन्द्रियग्राह्यो यः स्पर्शस्तद्विजातीयाः शब्दादयस्तव्यावृत्तं तद्भिन्नमित्यर्थः । विजातीयव्यावृत्तपदानुपादानेऽनुद्भुतस्पर्शेऽव्याप्ति: स्यात् । तस्यास्मदादिस्पर्शनोन्द्रियग्राह्यत्वाभावात् । घटादिव्यावृत्तयेऽद्रव्यमिति । एवमग्रेडप्यूह्यम् । तेजस्युष्ण इति । 'सुतं पतन्तं प्रसमीक्ष्य पावके न बोधयामास पति पतिव्रता । पतिव्रताशापभयेन पीडितो हुताशनश्चन्दनबिन्दुशीतलः' इत्यस्य त्वयमाशयः- हुताशनस्य न शीतलत्वं जायते । अपि तु पतिव्रतासंक. ल्पविशेषेण तस्य दाहकत्वमेवोपरुध्यत इति । अनुष्णाशीत इति । अनुष्णाशीतोऽपि स्पर्श एव । न तु शीतोष्णविरहमात्रम् । आकाशादावपि तथोपलम्भप्रसङ्गात् । वायुपृथिव्योः स्पर्शवत्त्वस्य श्रुत्यादिसिद्धत्वाच्च । न च स्पर्शसामान्यं तदिति वाच्यम् । निर्विशेषं न सामान्यमिति न्यायात् । चाण्डालादीति । आदिना कपिकच्छूसंग्रहः । गोब्राह्मणचाण्डालादिषु स्पर्शभेदस्तु तत्तत्स्पर्शाधीनशुद्धयशुद्धिभेदेन बोध्यः । मृदुत्वकठिनत्वादयोऽपि स्पर्शविशेषा एव । स्पर्शनेनैव तदुपलब्धेः । चक्षुषा तु न तदुपलब्धिः। किंतु तत्र मृदुत्वादिव्याप्तरूपविशेषग्रहणेन तदनुमानमेव । केचित्तु मृदुत्वादयः संयोगविशेषा एवेत्याहुः । चक्षुरिन्द्रियैकग्राह्यति । चक्षुरिन्द्रियमात्रग्राह्यमित्यर्थः । श्रुत्यनुसारादिति । ' यदग्ने रोहित रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्य' (छां० ६।४।१) १ ग. प्रायविजातीयव्यावृत्तोऽद्रव्यं । घ. ग्राह्यमद्रव्यं । २ घ. षाः। इति । ३ ग. 'दाः । अस्म । ४ ग. घ. 'तर्धा । ५ क. ख. घ. ° णद्विविधा । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126