Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram

View full book text
Previous | Next

Page 100
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशसहिता। सहचर्तिसत्त्वं मिश्रसत्त्रम् । तत्रिगुणे तत्संबन्धिनि जीवे चोपचारादिति नेयम् । लोभप्रवृत्त्यादिनिदानमतीन्द्रियं शक्त्याद्यतिरिक्तमद्रव्यं रजः। प्रमादमोहादिनिमित्तमतीन्द्रियं शक्तचायतिरिक्तमद्रव्यं तमः । त्रीण्य. प्येतानि यावत्प्रकृतिव्याप्तानि प्रकृतिवश्यपुरुषसंबद्धान्यनित्यानि । नित्यसं. तानानि प्रलयदशायां समौनि सृष्टयादौ विषमाणि सृष्टिस्थितिसंहारोपयुक्तानि ईश्वरसंकल्पादिसहकारिभेदात्परस्पराभिभवोद्भवकणीत्येतानि साधारणानि । सत्त्वगुणस्तु सम्यग्ज्ञानरूपसुखादिहेतुर्मोक्षपदश्च । रजोगुणस्तु रागाद्यात्मकः कर्मसंङ्गदुःखादिहेतुः स्वर्गाद्यामुष्मिकपदः । तमोगुणस्त्वज्ञानरूप आलस्यादिहेतुर्नरकपदश्च । अतः सत्त्वादयो गुणा न द्रव्यरूपाः । अस्मदादिश्रोत्रग्राह्यः पञ्चभूतवर्ती शब्दः । स द्विविधः-वर्णात्मकोऽवपुनरपि तयोः सङ्गजननं चेति । मिश्रसत्त्वमिति । इदमेवाशुद्धसत्त्वमिति व्यवहियते। लोभप्रवृत्त्यादीति । लोमः स्वकीयद्रव्यस्यात्यागशीलता । प्रवृत्तिस्तु प्रयोजना मनुद्दिश्यारि चलस्वमावता। आदिपदेनाऽऽरम्भाशमस्पृहासंग्रहः । आरम्भश्च फलसाधनभूतकारम्भः । इन्द्रियानुपरतिरशमः । विषयेच्छा स्पृहा । प्रमादमोहादीति । अकार्यप्रवृत्तिफलमनवधानं प्रमादः । विपरीतज्ञानं मोहः । आदिपदेनाप्रकाशाप्रवृत्तिसंग्रहः । ज्ञानानुदयोऽप्रकाशः । अप्रवृत्तिश्च स्तब्धता । पश्चभूतवर्तीति । मेघो गर्नति शङ्खो नदति भेरी ध्वनतीत्यादिव्यवहारदर्शनात् । 'नमस्ते वायो त्वमेव प्रत्यक्षं ब्रह्मासि त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामि' (तै० १।१ १) इतिश्रुतौ च वायोरेव वेदात्मना परिणतिरुपलभ्यते । तत्तु वायोः शब्दाधारत्व. मन्तरेण न संजाघटीति । ' तस्य ह वा एतस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदः । (बृ. २ । ४ । १० ) इत्यादिश्रुतिरप्यत्र प्रमाणम् । विष्णुपुराणे च (२ । १४ । ३२) वेणुरन्धविभदेन भेदः षड्नादिसंज्ञितः । अभेदव्यापिनो वायोस्तथाऽसौ परमात्मनः ॥ इत्युक्तम् । एवं नाभिदेशादेव निर्गतस्य वायोस्तास्वादिस्थानसंबन्धेन तत्तच्छब्दपरिणतिहेतुत्वं प्रसिद्धमेव । अत्रेदं बोध्यम्-लीलाविभूताविव नित्यविभूतावपि १ ग. 'हवृत्तिस । २ क. 'न्धिजी । ३ क. 'मानानि । ग. सृष्टिदशायां वि।५ क. "राण्येता । ६ ख. सत्यज्ञान' । घ. सम्यक्त्वज्ञान' । ७ घ. सुखहे । ८ ग. 'त्मककर्म । ९ क. सङ्गिदुःखहे । ख. 'सत्रीदुः । १० ग. "स्वर्गनरकाद्या'। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126