Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशसहिता। पञ्चावस्थास्वपि श्रीविशिष्ट एव भगवान्वर्तत इति श्रुत्या प्रमाणसिद्धोऽर्थः । तेनकायनोक्तनिःश्रीकवादो निरस्तः । एवमीश्वरो निरूपितः ॥ इति श्रीवाधूलकुलतिलक श्रीमन्महाचार्यस्य प्रथमदासेन श्रीनिवासदासेन विरचितायां यतीन्द्रमतदीपिकायामीश्वरनिरूपणं
नाम नवमोऽवतारः ॥९॥
मैतिवादवगन्तव्यम् । चतुर्थस्तु प्रसिद्ध एव । आर्षस्तूक्तान्तर्भूत एव । श्रीविशिष्ट एवेति । अत एवोक्तम्
'नित्यैवैषा जगन्माता विष्णोः श्रीरनपायिनी । यथा सर्वगतो विष्णुस्तथैवेयं द्विजोत्तम ॥ देवत्वे देवदेहेयं मनुष्यत्वे च मानुषी ।
विष्णोरेवानुरूपां वै करोत्येषाऽऽत्मनस्तनुम् ' इति । अनोपासकस्य प्रथमतोऽर्चावतारस्योपासनेऽधिकारः । ततो विभवस्य । ततो व्यूहस्य । ततः परस्य । ततोऽन्तर्यामिणः । तदुक्तम्
• उपासकानुरोधेन भजते मूर्तिपञ्चकम् । तद विभवव्यूहसूक्ष्मान्तर्यामिसंज्ञकम् ।। यदाश्रित्यैव चिद्वर्गस्तत्तज्ज्ञेयं प्रपद्यते । पूर्वपूर्वोदितोपास्तिविशेषक्षीणकल्मषः ।। उत्तरोत्तरमूर्तीनामुपास्त्यधिकृतो भवेत् ' इति । 'वासुदेवः स्वभक्तेषु वात्सल्यात्तत्तदीहितम् । अधिकार्यानुगुण्येन प्रयच्छति फलं बहु ॥ तदर्थ लीलया स्वीयाः पञ्च मूर्तीः करोति वै । प्रतिमादिकमर्चा स्यादवतारास्तु वैभवाः ।। संकर्षणो वासुदेवः प्रद्युम्नश्वानिरुद्धकः । व्यूहश्चतुर्विधो ज्ञेयः सूक्ष्मं संपूर्णषड्गुणम् ॥ तदेव वासुदेवाख्यं परं ब्रह्म निगद्यते। . अन्तर्यामी जीवसंस्थो जीवप्रेरक ईरितः ॥ य आत्मनीतिवेदान्तवाक्यजालैर्निरूपितः । अर्थोपासनया क्षिप्ते कल्मषेऽधिकृतो भवेत् ।।
१ ख. पिवि । २ ख. णनिषिद्धार्थः । ३ ग. "यः । एतेनै ।
For Private And Personal Use Only

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126