Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram

View full book text
Previous | Next

Page 97
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यतीन्द्रमतदीपिकाप्रयोजनं तु दुष्कृतविनाशपूर्वकं साधुपरित्राणमेव । ' अन्तर्यामित्वं नाम स्वर्गनरकायनुभवदशायामपि जीवात्मनः मुहवेन योगिभिर्द्रष्टव्यतया हृदयप्रदेशावस्थितं रूपम् । जीवेन साकं विद्यमानोऽपि तन्तदोषैरसंस्पृष्टो वर्तते। अचर्चावतारो नाम देशकालविप्रकर्षरहित आश्रिताभिमतद्रव्यादिक शरीरतया स्वीकृत्य तस्मिन्नप्राकृतशरीरविशिष्टः सन्नर्चकपराधीनस्नानभोजनासनशयनस्थितिः सर्वप्सहिष्णुः परिपूर्णो गृहग्रामनगरभंदेशशैलादिषु वर्तमानो मूर्तिविशेषः । स च स्वयंव्यक्तदैवसैद्धमानुषभेदाच्चतुर्विधः । एवमुक्तामु म च ' पतिव्रता धर्मपरा हता येन मम प्रिया । स तु प्रियाविरहितश्चिरकालं मविष्यति । इत्येतादृशभृगुशापादिभिर्नात इति कथमुक्तमिति वाच्यम् । तत्र शापो व्याजमा. अमवतारस्त्विच्छाप्रयुक्त एवेत्याशयात् । प्रयोजनं त्विति । अत एवोक्तम् 'परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्मसंस्थापनार्थाय संभवामि युगेयुगे' (गी० ४ । ८ ) इति । अन्तर्यामित्वमिति । ' य आत्मानमन्तरो यमयति' (ब० ३ । ७ । ३) इतिश्रुतिरत्र प्रमाणम् । अस्य चान्तर्यामिणः स्थितिद्विधा-तत्रैका स्वर्गनरकप्रवेशादिसर्वावस्थास्वपि सकलचेतनानां सहायभूतस्य तांस्त्यक्तुमसमर्थस्य स्थितिः । अपरा च शुमाश्रयेण विग्रहेण सहितस्य तेषां ध्येयत्वार्थ तात्रक्षितुं च बन्धुभूतस्य हृदयकमले स्थितिः। . अर्चावतारः । प्रतिमावतारः। देशति । रामकृष्णाद्यवतारेप्वयोध्यामथुरादिदेशनियम इवाचर्चावतारेषु देशनियमो नास्तीत्यर्थः । एवं कालनियमोऽपि । आश्रिताभिमतद्रव्यादिकम् । सुवर्णरजतशिलादिकम् । अर्चावतारस्यापि षड्गुणाश्रयत्वम् । तदुक्तम् 'सर्वातिशयषाड्गुण्यं संस्थितं मन्त्रबिम्बयोः। मन्त्रे वाच्यात्मना नित्यं विम्बे तु कृपया स्थितम् ' इति । 'बिम्ब प्रतिमा । स चेति । देवालयादिष्वयं विद्यमानो मूर्तिविशेषः क्वचिस्वसंव्यक्तो भवति । क्वचिद्देवैः स्थापितः । क्वचित्सिद्धः । क्वचिन्मनुष्यैः । तत्राऽऽद्यत्रय ११. °ष्टो द्रष्टव्यः । २ घ. हितात्रि । ३ प. प्रशस्तदे। ग. 'प्रशस्त शैं। - For Private And Personal Use Only

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126