Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यतीन्द्रमतदीपिकाकनकमभः केशवचतुश्चक्रधरः । श्यामो नारायणश्चतुःशधरः । मणिभो माधवश्चतुर्गदाधरः । चन्द्राभो गोविन्दश्चतुःशाङ्गधरः । पअकिञ्जल्कसंनिभो विष्णुश्चतुईलधरः । अब्जाभो मधुसूदनश्चतुर्मुशलधरः। अग्निवर्णस्त्रिविक्रमश्चतुःखङ्गधरः । बालसूर्याभो वामनश्चतुर्वजधरः । पुण्डरीकाभः श्रीधरश्चतुष्पदिशधरः । तडित्पभो हृषीकेशश्चतुर्मुद्रधरः । सूर्याभा पद्मनाभः पञ्चायुधधरः। इन्द्रगोपनिभो दामोदरश्चतुष्पाशधरः।।
विभवो नाम तत्तत्सजातीयरूपेणाऽऽविर्भावः । स दशधा-ते च मत्स्यादयोऽवतारविशेषः । तत्र वेदापहारिदैत्यनिरसनद्वारा ब्रह्मणे प्रमाणपंदत्वार्थों मत्स्यावतारः । देवानामरांमृतिहेत्वमृतोत्पादने मन्दराधारत्वेनावतीर्ण: कूर्मावतारः। संसारसागरोन्मग्नजनोद्धर्तुकामः स्वमहिषीभूम्युद्धरणार्थमवती! वराहः । आश्रितैसंरक्षणार्थ महासुरग्रहस्तम्भेऽवती! नृसिंहावतारः। त्रिविक्रमो भूत्वा स्वपादारविन्दोद्भवेन जलेन जगत्पीपापहरणन तद्रक्षणार्थमवतीर्णो वामनः । दुष्टक्षत्रियनिरसनार्थ परशुरामः । शरणागतरक्षणार्थो धर्मस्थापनार्थ : श्रीरामः । प्रलम्बादिनिरसनाथ बलभद्रः । मोक्षोपायदर्शनार्थ श्रीकृष्णः । अधर्मिष्ठानिरस्य पूर्णधर्मोत्पादनार्थ कलिनिर्मोचनार्थ कल्क्यवतारः । एवमेकैकावतारेष्वनन्तप्रकाराः सन्ति । पत्रिंशद्भेदभिन्नाः पद्मनाभादयोऽपि । पुनत्रिविक्रमवामनश्रीधररूपं त्रयं प्रद्युम्नात् । हृषीकेशपद्मनाभदामोदररूपं त्रयमनिरुबादिति भावः । मणिप्रभः । इन्द्रनीलनिमः ।
'इन्द्रनीलनिभश्यामं चतुर्हस्तैर्गदाधरम् ' इत्युक्तत्वात् । चतुःशाधर इति । चतुःपद्मधर इत्यपपाठः । 'चतुर्भुजधनुष्मन्तं चन्द्रमःसदृशद्युतिम् ' इत्युक्तत्वात् ।
विभव इति । विमवश्व मुख्यगौणभेदाद्विविधः । तत्र मुख्यः साक्षादवतारः । गौणस्त्वावेशावतारः । आवेशश्च स्वरूपावेशः शक्तयावेश इति द्विविधः । तत्र स्वरूपावेशः स्वेन रूपेण सहाऽऽवेशः । स च परशुरामादीनां चेतनानां शरीरेषु स्वासाधारणविग्रहेण सहाऽऽवेशः । शक्तयावेशः कार्यकाले विधिशिवादिचेत. नेषु शक्तिमात्रेण स्फुरणम् । अत्र गौणत्वमिच्छयाऽऽगतं न स्वरूपेण । यथा रामकृष्णादिमनुष्यत्वं मत्स्यादितिर्यक्त्वं चेच्छयाऽऽगतं तद्वत् । पत्रिंशद्भदेति ।
घ. ग. 'प्रभाभो । २ ख. तुः पद्म' । ३ घ. "र्मुसल। क. पदध । ५ घ. चतुःपा । ६ घ. °षाः । । ७ ग. निरासपूर्वक ब । ८ ग. प्रदानार्थमवतीर्णो म । ९ घ. 'रः । अमृ । १० घ. रामरणहे ।११ घ. रः । भूमेरुद्ध । १२ ग. °तर । १३ घ. पापह। १४ घ. णार्थोऽव । १५ ख. प. क्षणध'। ११ घ. नाथ श्री १७ ख. रामचन्द्रः । १८ ग.. णः कलि ।
For Private And Personal Use Only

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126