Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशसहिता। देषिभक्तहयग्रीवनरनारायणादयोऽपि । एवं मुख्यगोणपूर्णाशावेशापवतारा बहुप्रकाराः। तेषूपास्यानुपास्यविभागो द्रष्टव्यः । अवताराणामिच्छैव हेतुर्नकर्म
नन्वहिर्बुध्न्यसहितायामेकोनचत्वारिंशदुक्ताः । तथाहि
‘विभवाः पद्मनामाचास्त्रिंशच नव चैव हि । पद्मनाभो ध्रुवोऽनन्तः शक्त्यात्मा मधसदनः ॥ विद्याधिदेवकपिलो विश्वरूपो विहंगमः । क्रोधात्मा वडवावक्त्रो धर्मो वागीश्वरस्तथा ॥ एकाम्भोनिधिशायी च मगवान्कमठेश्वरः । वराहो नरसिंहश्च पीयूषहरणस्तथा ॥ श्रीपतिर्भगवान्देवः कान्तात्मामृतधारकः । राहुजित्कालनेमिन्नः पारिजातहरस्तथा ॥ लोकनाभस्तु शान्तात्मा दत्तात्रेयो महाप्रमुः। न्यग्रोधशायी भगवानेकशृङ्गतनुस्तथा ॥ देवो वामनदेहस्तु सर्वव्यापी त्रिविक्रमः । नरो नारायणश्चैव हरिः कृष्णस्तथैव च ।। ज्वलत्परशुधृग्रामो रामश्चान्यश्चतुर्गतिः । वेदविद्भगवान्कल्की पातालशयितः प्रभुः ॥
त्रिंशच नव चैवते पद्मनाभादयो मताः ' इति । तत्कथमत्र पत्रिंशदित्युक्तमिति चेन्न । कपिलदत्तात्रेयपरशुरामाणामावेशावतारत्वात्तान्विहायात्र षट्त्रिंशदित्युक्तेः । दधिभक्तेति । तत्रामृतप्रदानार्थमङ्गीकृतो दधिमक्तावतारः । वेदप्रदानार्थो हयग्रीवावतारः। शिप्याचार्यरूपे स्थित्वा श्रीमन्त्रप्रकाशकृन्नरनारायणावतारः । तेष्विति । तदुक्तं तत्त्वत्रये ' तत्राप्राकृतविग्रहा अनहत्स्वभावविभवा दीपादुत्पन्नदोपवत्स्थिता मुख्यप्रादुर्भावाः सर्वे मुमुक्षूणामुपास्याः । विधिशिवपावकव्यासनामदग्न्यार्जुनवित्तेशादिरूपा गौणप्रादुर्भावाः सर्वेऽहंकारयुक्तजीवा. धिष्ठातृत्वान्मुमुक्षूणामनुपास्याः । इति । अत्राऽऽदिशब्देन ककुत्स्थमुचुकुन्दसंग्रहः । विधिशिवादयश्च वुमुक्षूणामेवोपास्या इति बोध्यम् । इच्छेवेति । 'संभवाम्यात्ममायया' (गी० ४।६ ) इत्यत्राऽऽत्ममाययेत्यस्याऽऽत्मेच्छयेत्यर्थः । न कर्मेति ।
. १ क. ख्यगुम ।
For Private And Personal Use Only

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126