Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram

View full book text
Previous | Next

Page 109
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०० पतीन्द्रमतदीपिका गुरुत्वस्य शक्त्यन्तर्भावस्य वक्तुमुचितत्वाच्च दशैत्रेति सुष्ठुक्तम् । सस्वरजस्तमांसि प्रकृतिगुणास्तत्संबन्धिजीवगुणाश्च । सवरूपं ज्ञानं सासिकः काल इत्यादिप्रतीतिरुपाधिवशादौपचारिकी । शब्दादयः पञ्च मक तिकार्यपञ्चमहाभूतगुणत्वेन प्रसिद्धाः । शुद्धसच्वं तु त्रिपाद्विभूत्यां तत्मवर्तकेश्वरे च । संयोगशक्तिरूपौ गुणौ षद्रव्यसाधारणाविति विवेकः । इत्यद्रव्यं निरूपितम् । इति श्रीवाधूलकुलतिलक श्रीमन्महाचार्यस्य प्रथमदासेन श्रीनिवासदासेन विरचितायां यतीन्द्रमतदीपिकायां जीवनिरूपणो नाम दशमोsवतारः ॥ १० ॥ गुणस्य च द्रव्यमात्रवृत्तित्वेन गुणगतायाश्चतुर्विंशतिसंख्यायाः कर्मगतायाः पञ्चत्वसंख्यायाश्चानुपपत्तेः । तत्राऽऽश्रयद्वारा संख्या कल्पनेऽपि गुणाश्रयाणां चतुर्विंशतित्वमेव कर्माश्रयाणां पञ्चत्वमेवेत्यत्र नियामकाभावः । पृथिव्यप्तेजोवायुमनसां पञ्चानामेव कर्माश्रयत्वेऽपि न तत्पञ्चत्वमुत्क्षेपणादिभेदेन पञ्च कर्माणीति वदद्भिः कटाक्षीकृतम् । एकत्वं च कार्यभूतं नास्त्येव । अवयवातिरिक्तस्यावयविनः कार्यस्याभावात् । संघातैक्य तु राशिवदौपचारिकमेव । नित्यमप्येकत्वं भेदाभावरूपं नातिरिक्तमिति केचित् ।. अत एवैकत्वविवरणे प्रवृत्ता भेदाभावरूपतयैवैकस्वं विवृण्वन्ति । एकत्वभ्रमो भेदादर्शनादभूदिति च भ्रान्तिविषये व्यवहरन्ति । स्वसत्त्वमेवैकत्वं तच्चेतरसद्भावेऽपि वर्तत इत्यन्ये । परिमाणमपि नातिरिक्तम् । किं तु देशव्याप्तिविशेष एव तत्तत्प्रतिसंबन्धिनिरूपितस्वरूपेण तत्तत्परिमाणमिति वदन्ति । द्रवत्वमपि तत्तद्वस्तु संस्थानविशेषस्वरूपमेव नातिरिक्तम् । तावतैव स्यन्दनोपपत्तेः । स्नेहोऽपि नातिरिक्तः । किं तु सलिलस्वरू•• पमेव चूर्णादिपिण्डीभावमातनोति । यदि पिण्डीभावसाधनत्वात्सलिले स्नेहाख्यो गुणः स्वीक्रियते तर्हि विश्लेषसाधनत्वादातपादौ रौक्ष्याख्यं गुणान्तरं किं न कल्प्यते । औष्ण्यादिभिरेव विश्लेषश्चेत्पिण्डीभावोऽपि शैत्यादिभिरेव स्यात् । किं च सलिलस्यापि क्वचित्पिण्डीभावासाधनत्वं दृश्यते । शुष्क मृत्पिण्डादीनां सलिलसेकेन विलयदर्शनात् । तस्मात्सलिलस्वरूपमेव सहकारिविशेषमासाद्य पिण्डीभावसाधनं विश्लेषसाधनं च भवतीति यथोपलम्भमङ्गीकार्यम् । चेतननिष्ठः स्नेहस्तु बुद्धिविशेषस्वरूप एवेति दि । गुरुत्वस्येति । गुरुत्वं हि पतनहेतुतया नैयायिकैः कल्प्यते । तदसत् । सर्वत्र १ क. ख. 'मू । एवं For Private And Personal Use Only .

Loading...

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126