Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram

View full book text
Previous | Next

Page 108
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशसहिता । दकहेतोरेव वेगाख्यसंस्कारोपपत्तेः, संयोगमादाय स्थितिस्थापकस्यापि संभवात, शब्दादिगन्धान्तानां प्रत्यक्षसिद्धत्वेनाङ्गीकारात्, विभागपृथक्त्व. योरपि संयोगाभावमादायोपपत्तेः, परत्वापरत्वयोर्देशकालसंयोगविशेषमादायोपेपत्तेः, संख्यापरिमाणद्रवत्वस्नेहानां तत्तद्रव्यस्वरूपमादायोपपत्तेः, रुप्यते स एव कर्मभेदो वेग इत्युच्यतामिति मावः । संयोगमिति । ननु शाखाकोदण्डचर्मप्रभृतिष्वाकर्षगादौ सति कृतश्चित्कारणविशेषाद्भूयः स्वस्था. नावस्थानं भवति स कारणविशेषः स्थितिस्थापक इत्यङ्गीकर्तव्य इति चेन्न । नियतसंस्थानविशेषस्यैव . तत्र कारणत्वात् । न च स्थितिस्थापकविशेषाभावे परावर्तने द्रौत्यविलम्बादिकं कथमिति वाच्यम् । तत्तस्थितिस्थापकविशेषनियामकेन तत्तत्संस्थानविशेषेणैव तत्संभवात् । सर्वदा क्रियोत्पत्तिप्रसङ्गः कर्षणमोक्षणादि. सहकारिसाहित्येन परिहारश्चोभयोस्तुल्य एव । विभागेति । उपपादितमेतत्संयो. गनिरूपणे । पृथक्त्वेति । सर्वार्थसिद्धिकारास्तु · व्यवहार एव खल्वर्थतत्त्वविभागे निदानम् । यद्भिन्नमिति व्यवह्रियते तदेव पृथगिति । यत्पृथगिति व्यवह्रियते तदेवे. तरदिति । अत एषां शब्दानां पर्यायत्वाद्भेदातिरेकेण पृथक्त्वं नाम न कश्चिद्धर्मः कल्पनीयः । भेदश्च नीलपीतादिरसाधारणो धर्म एव । तथा च सर्ववस्तूनां परस्परव्यावर्तकासाधारणधर्म एव पृथक्त्वं स एव च भेदः ' इत्याहुः । परत्वापरत्वयोरिति । न च परत्वापरत्वयोर्दिक्कालसंयोगविशेषस्वरूपत्वे तयोः प्रत्यक्षविषयत्वं न स्यात् । दिक्कालयोरप्रत्यक्षत्वादिति वाच्यम् । आकाशस्वरूपाया दिशः कालस्य च प्रत्यक्ष. त्वस्य प्रागुपपादितत्वात् । संख्येति । तार्किकास्तु एकठ्यादिप्रतीतिव्यवहारविषयो यो गुणः सा संख्या । सा पुनः परमाण्वादौ नित्या। घणुकत्र्यणुकादौ तु तत्तत्कारणगतैरेक. त्वैर्जन्यते । द्वित्वत्रित्वादिकं त्वनेकावगतितहकृतककनिष्ठेकत्वजन्यम् । सा चावगतिरपेक्षाबुद्धिरित्युच्यते । सा चापेक्षाबुद्धिस्तत्तत्पुरुषमात्रनिष्ठेति तज्जन्यद्वित्वत्रित्वादिक तत्तत्पुरुषैरेवानुभूयते । क्षणिकं च तत् । तत्कालमात्रभावित्वादित्याहुः । तत्रेदमुच्यतेयादृशापेक्षाबुद्धिविषयाद्वित्वाद्युत्पत्तिस्तादृशापेक्षाबुद्धिविषयवस्तुविशेषोपलम्भ एव द्वित्वादिव्यवहारमातनोतु । किमतिरिक्तद्वित्वादिकल्पनेन । न ह्यपेक्षाबुद्धिनिर्विषया । अज्ञानत्वप्रसङ्गात् । नापि प्रकृतानुपयोगिवस्तुविषया। प्रकृतासंगतिप्रसङ्गात् । तथा च सविषयत्वे प्रकृतसंगतत्वे च सिद्धे योऽयं विषयविशेषः स एव द्वित्वादिव्यवहारमातनोतु । अवश्यं चैतदेवं विज्ञेयम् । इतरथाऽतिरिक्तसंख्याकल्पनेऽपि संख्याया गुणत्वेन १ ख. शब्दस्पर्शरूपरसगम्भाना पचानां म । २ ख. घ. पपादयितुं शक्यत्वात्संख्या, For Private And Personal Use Only

Loading...

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126