Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram

View full book text
Previous | Next

Page 34
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशसहिता। २५ पा। पराजय हेतुर्निग्रहस्थानमित्येषामनुमानाङ्गत्वादनुमानेऽन्तर्भावः । कचित्क. चिन्नैयायिकमतानुसारेणोक्तमिति न विरोधः । इत्यनुपानं निरूपितम् ।। इति श्रीवाधूलकुलतिलकश्रीमन्महाचार्यस्य प्रथमदासेन श्रीनिवासदा. सेन विरचितायां यतीन्द्रमतदीपिकायामनुपाननिरूपणं नाम द्वितीयोऽवतारः ॥ २ ॥ अथ तृतीयोऽवतारः। अनुमाननिरूपणानन्तरं शब्दो निरूप्यते-अनाप्तानुक्तवाक्यजनिततदर्थः विज्ञानं शाब्दज्ञानम् । तत्करणं शब्दप्रमाणम् । अनाप्तानुक्त इत्युक्तत्वाद्ध. दस्य पौरुषेयत्वमतनिरास: । करणदोषबाधकपत्ययाभाववद्वाक्यं वा । सर्गादौ भगवांश्चतुर्मुखाय पूर्वपूर्वक्रमविशिष्टान्वेदान्स्मृत्वास्मृत्वोपदिशतीत्युक्त्या वेदस्य नित्यत्वमपौरुषेयत्वं च सिद्धमिति करणदोषाभावो बाधकप्रत्ययाभावश्च । स्वव्यापित्वं स्वव्याघातकत्वं च बोध्यम् । सा च साधर्म्यसमादिभेदेन चतुर्विशति प्रकारेति गौतमसूत्रे (५ । १ । १) स्पष्टम् । दूषणसमर्थमप्यसिद्धं छलं, सिद्धमपि दूषणासमर्थ जातिरिति च्छलजात्योदः । निग्रहस्थानमिति । निग्रहस्य खलीकारस्य स्थानं ज्ञापकमित्यर्थः । यथा-शब्दोऽनित्यः प्रत्यक्षगुणत्वादित्युक्ते परेण सोऽयं गकार इत्यादिप्रत्यभिज्ञाबलाद्वाध उद्भावितेऽस्तु तर्हि नित्यः शब्द इति नित्यत्वं स्वीकुर्वन्वादी प्रतिज्ञां जहाति । तच्च निग्रहस्थानं प्रतिज्ञाहान्यादिभेदेन द्वाविंश. तिविधम् । तत्तलक्षणानि तु गौतमसूत्रे (५।२।१) ज्ञेयानि ॥ इति श्रीयतीन्द्रमतदीपिकाप्रकाशे द्वितीयोऽवतारः ॥ २ ॥ अथ तृतीयोऽवतारः। अनाप्तति । नवयं परित्यज्याऽऽप्तोक्तवाक्यजनिततदर्थविज्ञानमित्युक्तौ तु वेदस्याऽऽप्तोक्तत्वसिद्धये तस्य पौरुषेयत्वं स्वीकार्य स्यात् । करणेति । करणदोषो बाधकप्रत्ययश्चेत्येतदुभयाभावविशिष्टमित्यर्थः । अत्रायं प्रयोगः-वेदः प्रमाणं , करणदोष. बाधकप्रत्ययरहितत्वे सति वाक्यत्वात्संप्रतिपन्नवाक्यवत् । अपौरुषेयत्वात्करणदापरा. १ घ. तत्कार'। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126