Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram

View full book text
Previous | Next

Page 83
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पतीन्द्रमतदीपिकापिपीलिकादेहे तत्परिमाणोऽतो देहपरिमाण आत्मेति जैनपक्षः, कर्तृत्वभोक्तः त्वादिकं प्रकृतेरेव न तु पुरुषस्येति सांख्पपक्षः, ब्रह्मांशो जीव इति यादवपक्षा, सोपाधिकब्रह्मखण्डो जीव इति भास्करपक्षः, अविद्यापरिकल्पित एकजीवङ्गश्च । किंचैककालेऽनेकदेहान्परिगृह्णतां सौभरिप्रभृतीनां स्वस्वरूपमनेकधा कृत्वा वत्तदेहपरिग्रहप्रसङ्गः । किंच. पस्कायप्रवेशद्वाराऽनेकशरीराणि परिगृह्णता योगिनां - स्वरूपस्य, स्थूलशरीरं त्यक्त्वा • ततः सूक्ष्मशरीरपरिग्रह समये तस्य सर्वस्यावकाशाभावाच्छैथिल्य : स्यात् । एतच्च . ' नैकस्मिन्नसंभवात् । (ब्र सू० २।२।३२) इत्यधिकरणे स्पष्टम् । कर्तृत्वेति । एतच्चानुपदमेवो. पपादितम् (पृ० ७२ पं २३) । ब्रह्मांश इति । यादवमते भास्करमते । ब्रह्मणः सगुणत्वाङ्गीकारस्तुल्य एकः । तथैव प्रपञ्चस्य सत्यत्वमपि । अत एव बन्धमोक्षव्यवस्था सिध्यति । इयांस्तु विशेषः । भास्करमते तत्त्वमसीति श्रुतेनीवब्रह्मणोरभेदः स्वाभाविकः । भेदस्त्वौपाधिको देवमनुष्यादिकृतः । अचिद्ब्रह्मणोस्तु भेदः स्वाभाविकः । 'निर्मलम् ' (ब्र० वि०. २१) इत्यादिश्रुतेः । अभेदोऽपि च तयोः स्वाभाविक "एव । इदं सर्वं यदयमात्मा' (३० २।४ । ५ ) इत्या. दिश्रुतेः । न चाचिह्मणोर्भेद औपाधिक इति वाच्यम् । उपाधेरचित्स्वन्ती वात् 'उपाधि ब्रह्म' एतदुभयभेदस्याप्यौपाधिकत्वेनोपाध्यन्तरापेक्षायामनवस्थाप्रसङ्गात् । यादवमते तु अधिद्ब्रह्मणोरिव जीवब्रह्मणोरपि भेदाभेदी स्वाभाविको । मुक्तावपि भेद. श्रुतस्तत्त्वमसीत्यैत्योपदेशाचेति । परं वेतन्न युक्तम् । तत्र भास्करमत उपाधिब्रह्मव्यतिरिक्तवस्त्वन्तरानभ्युपगमाद्ब्रह्मण्येवोपाधिसंसर्गादौपाधिकाः सर्वे दोषा ब्रह्मण्येव स्युः । ततश्च ' अपहतपाप्मा ' ( छां० ८ । ७ । १ ) इत्यादिश्रुतिविरोधः । यादव. मतेऽपि जीवब्रह्मणों दवदभेदस्याप्यभ्युपगमाद्ब्रह्म स्वरूपेणैव सुरनरतिर्यक्स्थावरादिभेदेनावस्थितमिति ब्रह्मणो जीवभावेन सर्वे जीवगता दोषा ब्रह्मण एव स्युः । विस्तरस्तु वेदार्थसंग्रहादवसेयः । अविद्योति । अयं शांकरपक्षः । तत्र हि अविद्याशबलं ब्रह्मैव जीवः । स च सर्वशरीरेष्वेकः । चैत्रानुभूते मैत्रस्थाननुसंधानं त्वविद्यावैचित्र्यात् । अत एव जीवैक्यवाद उपपद्यते । तथा ' ज्ञानिनो मित्रामित्रकथा कुतः' ' यद्यन्योऽस्ति परः कोऽपि ' ( वि. पु. २ । १३ । ८५ ) ' एक एव हि भूतात्मा' (ब्र० वि०१२.)' घटध्वंसे घटाकाशो न मिन्नो नभप्ता यथा' इत्यादि संगच्छत इति । एतदपि न सम्यक् । ' पृथगात्मानम् ' इत्यादिश्रुतिषु जीवब्रह्मणो: निरुपाधिकभेदप्रतिपादनात् । आश्रयानुपपत्त्यादिसप्तविधानुपपत्तिग्रस्तत्वेनावि. धाया निरूपयितुमशक्यत्वाच्च । सप्तविधानुपपत्तयस्तु श्रीमाष्यादौ द्रष्टव्याः । जोवैक्यवादस्तु साजात्यादेव । ' पण्डिताः समदर्शिनः । (गी० ५। १८) इत्यादिस्मृतिभिर्जीवानां साम्यबोधनात् । 'मित्रामित्रकथा कुतः' इति तु न For Private And Personal Use Only

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126