Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.
पतीन्द्रमतदीपिका:दुपादानकारणं भवति । संकल्पविशिष्टवेषेण निमिचकारणं भवति । कालायन्त. निमित्तकारणत्वं वदन्ति । तत्र बौद्धा वैशेषिकाश्च पार्थिवाप्यतैनसवायवीयांश्चतु. विधान्परमाणूनभ्युपगच्छन्ति, आर्हताः पुनरेकरूपानेवेत्यन्यत् । तत्कथमत्रेश्वरस्यैव कारणत्वमुच्यत इति चेन्न । परमाणौ प्रमाणाभावात् । तथाहि-न तावत्प्रत्यक्षम् । महत्त्वाभावात् । नाप्यनुमानम् । सदेवेत्याधुक्तश्रुतिविरोधात् । न चाऽऽगमः । अनुपलम्मात् । प्रत्युताऽऽगमादीश्वरस्यैव जगत्कारणत्वं सिध्यति । अन्येषां च प्रमाणाना त्रिवेवान्तर्मावः । यत्तु 'सांख्याः प्रधानमेव जगत्कारणम् । यथा मेघविमुक्तस्यैकरसस्य जलस्य नारिकेलतालचूतकपित्यादिविचित्ररसरूपेण परिणामप्रवृत्तिदृश्यते तथा परिणामस्वभावस्य प्रधानस्यानन्याधिष्ठितस्यैव गुणवैषम्यनिमित्तो विचित्रपरिणामः संभ. वति' इत्याहुः । तन्न । प्रधानस्याचेतनत्वात् । चेतनमेव हि ' एवं विचित्रजगदाकारण परिणामः' इति संकल्पहेतुः । यदि स्वमावत एव प्रवृत्तिस्तहिं प्रलयानुपपत्तिः । जीवविशेषोऽपि न कारणम् । तस्य कर्मपरतन्त्रत्वात् । ब्रह्मरुद्रादयोऽपि सृज्यत्वसं. हार्यत्वरूपकर्मवश्यत्वश्रवणान्जीवविशेषा एव । उपादानकारणमिति । कारणं त्रिविधम् - उपादानं निमित्तं सहकारि च । तत्र कार्यरूपेण परिणामयोग्यं वस्तू. पादानकारणम् । यथा घटं प्रति मृत्तिका । उपादानवस्तुनः कार्यरूपेण परिणाम यः करोति स कर्ते निमित्तकारणमुच्यते । यथा कुलालः । कार्योत्पत्त्युपकरणं वस्तु सहकारिकारणम् । यथा दण्ड चक्रादयः । जगतस्तु त्रिविधमपि कारणमीश्वर एव । सूक्ष्मचिदचिद्विशिष्ट उपादानम् । बहु स्यामिति संकल्पविशिष्टो निमित्तम् । ज्ञानशक्तयादिविशिष्टः सहकारीत्याशयः । नन्वीश्वरस्येवापादानत्वे तस्य सविकारत्वात् 'अविकाराय शुद्धाय ' (वि.पु. १।२।१ ) इत्युक्तं निर्विकारत्वं विरुध्यत इति चेन्न । चिदचिद्रूपविशेषणविशिष्टस्येश्वरस्य जगद्रूपेण परिणामेऽपि विशेष्यस्य स्वरू. पस्य विकाराभावात् । परिणामस्तु विशेषणद्वारैव । यथोर्णनाभिः स्वरूपविकाराभावेऽपि स्वशरीरभूतविशेषणद्वारा तन्तुनालरूपकार्य प्रत्युपादानं तद्वत् । विशिष्टस्वरूपेण विकाराश्रयत्वमीश्वरस्येष्टमेव । मनुष्याविशरीरविशिष्टे स्वरूपतो निर्विकारे पुंसि बाल्ययुक्त्वस्थविरत्वस्थूलत्वादिवत् । निमित्तकारणमिति । एकस्यैवोपादानत्वं निमित्तत्वं च न विरोधावहम् । यथैक एव जीवात्मा तेस्तैरुपायैः स्वसृखादीनुत्पादयति स्वयमेव च तेषां समवायिकारणं भवति तद्वत् । कालादीति । तदुक्तं तत्त्व. त्रयभाष्ये- ' सृष्टी प्रसक्तायां चतुर्दशभुवनस्रष्टुः समष्टिपुरुषस्य ब्रह्मणः, तेन सृष्टानां नित्यसृष्टिकर्तृणां दशानां प्रजापतीनां सृष्ट्यपेक्षितस्य कालस्य परस्परमू. त्पादकानां सर्वजन्तूनां च तत्तत्प्रवृत्तयः सर्वाः स्वस्मिन्यथा पर्यवस्यन्ति तथाऽन्तरात्मा सन्प्रवृत्तिहेतुरजोगुणविशिष्टः सन्सृजति ' इति ।
For Private And Personal Use Only

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126