Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५८
७
यतीन्द्रमवदीपिकागरुडाचन्तयुक्तपताकालंकृतदीर्घमाकारसहितगोपुरमतीत्यैरमदाख्यामृतसर:सोमसवनारूयाश्वत्थं च दृष्ट्वा शतं मालाहस्तेत्युक्तं पञ्चशैतदिव्याप्सरोमणैरुपैचारितो ब्रह्मगन्धादिभिरलंकृतस्तत्रस्थाननन्तगरुडविष्वक्सेनादीन्प्रणम्य तैबहुमतो महामणिमण्डपमासाय पर्यङ्कसमीपे स्वाचार्यान्प्रणम्य पर्यवसमीपं गत्वा धर्मादिपीठोपरिकमलेऽनन्ते विमलादिभिवामरहँस्ताभिः सेव्यमानं श्रीभूलीलासमेतं शङ्खचक्रादिदिव्यायुधोपेत जाज्वल्यमानकिरीटमकरकुण्डलोवेय. हारकेयूरकटकश्रीवत्सकौस्तुभमुक्तादामोदरबन्धनपीताम्बरकाचीगुणनूपुराधपरिमितदिव्यभूषणभूषितमपरिमितोदारकल्याणगुणसागरं भगवन्तं दृष्ट्वा तत्पा. दारविन्दयुगुले शिरसा प्रणम्य पादेन पर्यङ्कमारुह्य तेन स्वाङ्के स्थापित कोऽसीति पृष्टो ब्रीप्रकारोऽस्मीत्युक्त्वा तेन कटाक्षितस्तदनुभवजनितहर्षप्रकर्षात्सर्वदेशसर्वकालसर्वावस्थोचितसर्वविधकर्यरतिराविर्भूतगुणाष्टक उत्तराव धिरहितब्रह्मानुभववान्यः स मुक्त इत्युच्यते । मुक्तस्य ब्रह्मसाम्यापत्तिश्रुतिस्तु भोगसाम्यमाह । जगद्यापारवर्जनस्य प्रतिपादनात् । तम्य नानात्वं सर्वलोकसंचरणं च संभवति । ननु मुक्तस्यानावृत्तित्वप्रतिपादनादस्मिल्लोके संचार: कवमिति न शङ्कनीयम् । कर्मकर्तृत्वस्यैव निषेधात्स्वेच्छया संचरणोपपत्तेः। अतो मुक्तो भगवत्संकल्पायत्तस्वेच्छया सर्वत्र संचरति । . नित्या नाम कदाचिदपि भगवदैनभिमवविरुद्धाचरणाभावेन ज्ञानसंकोचप्रसङ्गरहिता अनन्तगरुढविष्वक्सेनादयः । तेषामधिकारविशेषा .ईश्वरस्य __ साम्यापत्तिश्रुतिरिति । 'निरञ्जनः परमं साम्यमुपैति ' ( मुं० ३ । १।३) इति श्रुतिरित्यर्थः । ' मम साधर्म्यमागताः ' (गी० १४ । २) इत्यत्राप्येवमेव । मोक्षो हि सायुज्यमेव । न तु सालोक्यं सामीप्यं सारूप्यं वा । तेषां स्वर्गादिवत्फला. न्तरत्वात् । सयुग्मावो हि सायुज्यं भोगसाम्यमिति यावत् । सयुक्शब्दश्च भिन्नयोरेकत्र साधारणयोग दर्शयति । ' ब्रह्म वेद ब्रह्मैव भवति । (मुं० ३।२।९) इतिश्रुतेरपि साम्य एव तात्पर्यम् । तदुक्तम्-'
लोकेषु विष्णोनिवसन्ति केचित्समीपमृच्छन्ति च केचिदन्ये । अन्ये तु रूपं सदृशं भजन्ते सायुज्यमन्ये स तु मोक्ष उक्तः' इति ।
.
.
.
क. ख. 'सरसः सो । २ घ. त्युक्तप । ३ क. शतं.दि। ४ घ. पचरि । ५ घ. तस्तत्रत्यानन्त । ६ घ.. हस्तैः से । ७ घ. रोटं म । ८ ख. ह्यपरिकरों' ! ९ घ..काशोऽस्मीत्युक्त्या ते । १० क. 'रगत्वं च । ११. क. मकव' । १२ क, 'भि । १३ ख. अशङ्कार ।
For Private And Personal Use Only

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126