Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पतीन्द्रमतदीपिकारुद्रस्य चतुर्मुखोदुत्पत्तिश्रवणादपहतपाप्मत्वश्रवणाच न रुद्रस्य कारण णत्वम् । अतो हिरण्यगर्भमजापतिस्वयंभ्वादिशब्दवाच्ये चतुर्मुखे शिवादिशब्दाः पर्यवस्यन्ति । एवमपि महोपनिषनारायणोपनिषत्सु बालोपनिषन्मत्रों वरुणीयपुरुषसूक्तनारायणानुवाकान्तर्यामिब्राह्मणादिषु नारायणस्यैव परमकारणत्वसर्वशब्दवाच्यत्वमोक्षप्रदत्त्वजगच्छरीरत्वादेः प्रतिपादनात्स्वयंभूहिरण्यगर्भपनापतिशब्दानां नारायणे पर्यवसानं युक्तमिति नारायण एवाखिलज. गत्कारणं सर्वविद्यावेयश्च ।
नेन्वन्तरादित्यविद्या रुद्रपरेति शङ्का न कर्तव्या । तस्या विष्णुपरत्वस्यैव बहुषु प्रमाणेषु सिद्धत्वात् । भर्गशब्दस्य सकारान्तत्वप्रतिपादनाच्च । तर्हि दह. रविद्यायामाकाशशब्दवाच्यनारायणान्तर्यामितया रुद्रस्य प्रतिपादनादहरविद्या रुद्रपरेति न शङ्कनीयम् । नारायणान्तर्वर्तिगुणजातस्यैवोपास्यत्वेन तत्राभिधानात् ! एवं सर्वविद्यास्वप्यूह्यम् । अतः समस्तकल्याणगुणात्मकः प्रकृतिपुरु. पाभ्यां भिन्नस्ताभ्यां विशिष्टः परब्रह्म जगत्कारणं नारायण एव । नन्वद्वैतश्रुत्या ब्रह्मक्यमेव सत्यं निगुणं च । तदन्यज्ज्ञातृज्ञेयादिकं तस्मिन्नेव परिकल्पितं सर्व मिथ्या । ब्रह्माविद्यया संसरति। तत्त्वमसीत्यभेदज्ञानं तन्निवर्तकम् । तस्मानिर्विशेषचिन्मात्रे ब्रह्मणि वेदान्तानां तात्पर्यमिति मतान्तरस्थैः प्रतिपादनात्कथं नारायणे तात्पर्य तस्य समस्तकल्याणगुणाकरत्वादिकथनं चेति चेदुच्यते-कारणत्वप्रतिपादकश्रुतिभिर्नारायणस्य कारणत्वे सिद्धे भेदाभेदश्रुत्योर्घटकश्रुत्या विषयभेदेनाविरोधे प्रतिपादिते निर्गुगप्रतिपादकश्रुतीनां हेयगुणनिषेधकत्वाज्ञातृज्ञेयादिकल्पकाविद्याया एवामामाण्याब्रह्मकार्यस्य सत्यत्वादविद्यया संसारे जीवगतदोषाणां ब्रह्मण्यपि संभवात्तनिवर्तकान्तरस्य वक्तुमशक्यत्वात् । अतोऽद्वैतवादस्यासंभवान्न निर्विशेषचिन्मात्रब्रह्मसिद्धिः । अतो नारायणस्यैव जगत्कारणत्वमोक्षप्रदत्वादिगुणयोगः संभवतीति सविशेषमेव ब्रह्म । सूक्ष्मचिदचिद्विशिष्टं ब्रह्म कारणं स्थूलचिदचिद्विशिष्टं ब्रह्म कार्यमिति कारणादनन्यत्कार्यमिति विशिष्टाद्वैतवेदान्तिनां संप्रदायः ।
नवद्वैतश्रुत्येति । मायावादिनां मतमेतत् ।
.१ क. °खादेवोत्प। २ घ. °दनप। । ख. में स्वयंभप्रजापत्यादि । ४ घ. ग. त्रायणी। ५ ख. 'नत्वन्त । ६ ख. कानुक । ७ घ. हुप्रमाणैः सि । ८ ख. 'त् । गर्भश । ९ घ. 'त्मकं प्र। १० घ. भिन्न ताभ्यां विशिष्ट परं ब्रह्म जगत्कारणम् । न'। ११ घ. ब्रह्मात्मैक्य। १२ प. शत्वप्र १३ घ. णप्रति । १४ घ. माणिकत्वात् । १५ स्व. विद्यायाः सं ।
For Private And Personal Use Only

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126