Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
"प्रकाशसहिता पीमिवेषेण सहकारिकारणं च । कार्यरूपेण विकारयोग्यं वस्तु, उपादानम् । कार्यतया परिणामयितृ, निमित्तम् । कार्योत्पत्युपकरणं वस्तु, सहकारि । यद्वोत्तरोत्तराषस्थाविशिष्टस्वरूपापेक्षया तदनुगुणनियतपूर्वभाव्यवस्थाविशिष्टः मुपादानम् । यथा घटत्वावस्थाविशिष्टमृद्रव्यापेक्षया पिण्डत्वावस्थाविशिष्ट सदेव द्रव्यम् । परिणामोन्मुख्यातिरिक्तेनाऽऽकारेणापेक्षितं कारणं निमित्तम् । अस्मिन्पक्षे सहकारिकारणस्य निमित्तेऽन्तर्भावः । एवं त्रिविधकारणपक्षे कार• गहुयपक्षे च कारणलक्षणलक्षितत्वादखिलजगत्कारणत्वं भगवतो नारायणस्यैव संभवति ।
ननु कथं नारायणे कारणत्वपर्यवसानमिति चेदुच्यते-न्यायसहितवेदान्त. पाक्यविचारेणैवं पर्यवस्यति । तद्यथा-आदौ तावत्मकृतेर्जगत्कारणत्वं नोपपद्यते । ईक्षितृत्वाद्यभावात् । छान्दोग्ये तावत्सदाकाशप्राणशब्दवाच्यानां जगत्कारणत्वं प्रतीयते । वाजसनेयके ब्रह्मशब्दवाच्यस्य कारणत्वं प्रतीयते । सर्वशाखापत्ययन्यायेन कारणवाक्यानामेकविषयत्वे मतिपादयितव्ये छाग. पशुन्यायेन सामान्यवाचकानां सदादिशब्दानां विशेष ब्रह्माण पर्यवसानं वक्तव्यम् । एवमुक्तन्यायेन ब्रह्मशब्दवाच्यस्य तैत्तिरीयोक्त आत्मशब्दवाच्ये पर्यवसान आत्मशब्दवाच्यः क इत्याकाङ्क्षायां श्रुतिप्रसिद्ध इन्द्रो वो तथा मसिद्धोऽनिर्वोपास्यत्वेन प्रसिद्धः सूर्यो वा कारणत्वेनोक्तः सोमो वाऽभीष्टफलप्रदत्वेनोक्तः कुबेरो वा यमो वा वरुणो वेति विशय एतेषां कर्मवश्यत्वप.. रिच्छिनैश्वर्यवत्त्वसंहार्यत्वश्रवणानते जगत्कारणभूताः किं तु श्वेताश्वतरे शिवस्य कारणत्वं भासत इति भाति । एवमथर्वणशाखायों शंभुशब्दवाच्य. स्य ध्येयत्वं कारणत्वं भासते । तथैवाथर्वशिरसि रुद्रशब्दवाच्यस्य सर्वात्मकतोच्यते । तैत्तिरीये हिरण्यगर्भस्य जगत्कारणत्वं प्रतीयते । अत्रापि सामा. न्यविशेषन्यायाच्छिवशंभुरुद्रादिशब्दानां हिरण्यगर्भशब्दवाच्यविशेष पर्यवसानं युज्यते । शिवशब्दस्य शिवमस्तु सर्वजगतां, शिवं कर्मास्तु, पन्थानः सन्तु ते शिवा इत्यादिभिमालवाचकत्वम् । रुद्रशब्दस्याग्निवाचकत्वम् । एवं महेश्वर. शंभ्वादिसामान्यशब्दा अप्यवयवशक्त्या चतुर्मुखे पर्यवस्यन्नि कारणवा. चिशिवादिशब्दानां मुख्यवृत्या रुद्रपरत्वं वा किं न स्यादिति न शङ्कनीयम् । । सर्वशाखेति । सर्वशाखामु प्रत्ययो ज्ञानमेकरूपमिमि न्यायशरीम् ।
१ ख. मयत्तानिमि। २ क. घ. शिष्टं तदुपा । ३ घ. 'रिगो नि । घ. संहकृत'। ५ प. चार ए । ६ क. ते । संकल्पज्ञानाद्यभावा । ७ ग. घ. 'ईक्षाद्य । ८ १. शप्रणवश । ५ क. 'त्वेन प्र । १० घ. °ब्दस्य । ११ घ. सानम् । आ° । १२ क. वाऽमि । १३ घ. त्व घ. 'पशा । १५ घ. °यां शिवशद । १६ घ. गर्भे वाच्य ।
११
For Private And Personal Use Only

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126