Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मकाससहिता। नित्येच्छयैवानादित्वेन व्यवस्थापिताः । एतेषामवतारास्तु भगवदवतारवत्स्वे छया । एवं बद्धमुक्तनित्य भेदभिन्नो जीवो निरूपितः ।। इति श्रीवाधूलकुलतिलकश्रीमन्महाचार्यस्य प्रथमदासेन श्रीनिवासदासेन विरचितायां यतीन्द्रमतदीपिकायां जीवनिरूपणा
नामाष्टमोऽवतारः ।। ८ ॥
11.
......
....
अथ नवमोऽवतारः ॥
अथेश्वरो निरूप्यते---सर्वेश्वरत्वं सर्वशेषित्वं सर्वकर्माराध्यत्वं सर्वफल प्रदत्वं सर्वाधारत्वं सर्वकार्योत्पादकत्वं स्वज्ञानस्वेतरसमस्तद्रव्यशरीरत्वामित्यादीनीश्वरलक्षणानि । अयमीवरः सूक्ष्मचिदचिद्विशिष्टवेषेण जग
" मोक्षं सालोक्यसारूप्यं प्राथये न कदाचन ।
इच्छाम्यहं महाबाहो सायुज्यं तव सुव्रत' ॥ इत्यत्र मोक्षमित्यस्य मोक्षत्वेन भासमानं सालोक्यं सारूप्यं च न प्रार्थये किंतु वस्तुतो मोक्षरूपं सायुज्यमेवेच्छामीत्यर्थः । एतेन सालोक्यादिभेदेन मोक्षे तारतम्य. मस्तीत्यपास्तम् । सालोक्यादिषु क्वचिन्मुक्तिशब्दप्रयोगस्तु भाक्तः । मुक्तितारतम्यं क्वद्भिस्तु मुक्तिरेव शिक्षणीया । सर्वकर्मनिवृत्तौ स्वतःप्राप्तब्रह्मानुभवे तारतम्यायोगात् ॥
इति श्रीयतीन्द्रमतदीपिकाप्रकाशेऽष्टमोऽवतारः ।
अथ नवमोऽवतारः ।
स्वज्ञानेति । स्वज्ञानात्स्वस्माञ्चेत रद्यत्समस्तं द्रव्यं तच्छरीरकत्वमित्यर्थः । ज्ञानस्य द्रव्यत्वेऽपि शरीरत्वाभावात्स्वज्ञानपदमुपात्तम् । अत एवेश्वरतज्ज्ञानव्यतिरिक्तं द्रव्यं शरीरमिति शरीरलक्षणमुक्तं न्यायसिद्धाञ्जने । इत्यादीनीति । आदिपदेन व्याप. कत्वे सति चेतनत्वं सत्यसंकल्पत्वं च ग्राह्यम् । अयमिति । अयमेवेत्यर्थः । “सदेव सोम्येदमन आसीत् ' (छां०६।२।१) 'ब्रह्म वा इदमेकमेवाग्र आसीत् । (बृ० ११४।१०) ' आत्मा वा इदमेक एवाग्र आसीत् ' ( ऐ०११) इत्यादिश्रुतिषु तथैवाभिधानात् । विशिष्टवेषेण । विशिष्ट स्वरूपेण । ननु बौद्धा आर्हताश्च परमाणनामेव जगत्कारणत्वं वदन्ति । वैशेषिकाश्च परमाणुनामुपादानकारणत्वमीश्वरस्य
१ ख. 'पस्थिताः। २ क, ख. "तारस्तु। ३. घ. सर्वकार्यो प.सरित्व'। '
For Private And Personal Use Only

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126