SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मकाससहिता। नित्येच्छयैवानादित्वेन व्यवस्थापिताः । एतेषामवतारास्तु भगवदवतारवत्स्वे छया । एवं बद्धमुक्तनित्य भेदभिन्नो जीवो निरूपितः ।। इति श्रीवाधूलकुलतिलकश्रीमन्महाचार्यस्य प्रथमदासेन श्रीनिवासदासेन विरचितायां यतीन्द्रमतदीपिकायां जीवनिरूपणा नामाष्टमोऽवतारः ।। ८ ॥ 11. ...... .... अथ नवमोऽवतारः ॥ अथेश्वरो निरूप्यते---सर्वेश्वरत्वं सर्वशेषित्वं सर्वकर्माराध्यत्वं सर्वफल प्रदत्वं सर्वाधारत्वं सर्वकार्योत्पादकत्वं स्वज्ञानस्वेतरसमस्तद्रव्यशरीरत्वामित्यादीनीश्वरलक्षणानि । अयमीवरः सूक्ष्मचिदचिद्विशिष्टवेषेण जग " मोक्षं सालोक्यसारूप्यं प्राथये न कदाचन । इच्छाम्यहं महाबाहो सायुज्यं तव सुव्रत' ॥ इत्यत्र मोक्षमित्यस्य मोक्षत्वेन भासमानं सालोक्यं सारूप्यं च न प्रार्थये किंतु वस्तुतो मोक्षरूपं सायुज्यमेवेच्छामीत्यर्थः । एतेन सालोक्यादिभेदेन मोक्षे तारतम्य. मस्तीत्यपास्तम् । सालोक्यादिषु क्वचिन्मुक्तिशब्दप्रयोगस्तु भाक्तः । मुक्तितारतम्यं क्वद्भिस्तु मुक्तिरेव शिक्षणीया । सर्वकर्मनिवृत्तौ स्वतःप्राप्तब्रह्मानुभवे तारतम्यायोगात् ॥ इति श्रीयतीन्द्रमतदीपिकाप्रकाशेऽष्टमोऽवतारः । अथ नवमोऽवतारः । स्वज्ञानेति । स्वज्ञानात्स्वस्माञ्चेत रद्यत्समस्तं द्रव्यं तच्छरीरकत्वमित्यर्थः । ज्ञानस्य द्रव्यत्वेऽपि शरीरत्वाभावात्स्वज्ञानपदमुपात्तम् । अत एवेश्वरतज्ज्ञानव्यतिरिक्तं द्रव्यं शरीरमिति शरीरलक्षणमुक्तं न्यायसिद्धाञ्जने । इत्यादीनीति । आदिपदेन व्याप. कत्वे सति चेतनत्वं सत्यसंकल्पत्वं च ग्राह्यम् । अयमिति । अयमेवेत्यर्थः । “सदेव सोम्येदमन आसीत् ' (छां०६।२।१) 'ब्रह्म वा इदमेकमेवाग्र आसीत् । (बृ० ११४।१०) ' आत्मा वा इदमेक एवाग्र आसीत् ' ( ऐ०११) इत्यादिश्रुतिषु तथैवाभिधानात् । विशिष्टवेषेण । विशिष्ट स्वरूपेण । ननु बौद्धा आर्हताश्च परमाणनामेव जगत्कारणत्वं वदन्ति । वैशेषिकाश्च परमाणुनामुपादानकारणत्वमीश्वरस्य १ ख. 'पस्थिताः। २ क, ख. "तारस्तु। ३. घ. सर्वकार्यो प.सरित्व'। ' For Private And Personal Use Only
SR No.020949
Book TitleYatindramatdipika
Original Sutra AuthorN/A
AuthorNivasdas, Hari Narayan Apte,
PublisherAnand Ashram
Publication Year1827
Total Pages126
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy