Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशसहिता । -
७५
वादप्रक्षः, अन्तःकरणावच्छिन्नानेक जीववादपक्ष इत्येवमादयो विरुद्धपक्षा निरस्ताः । विभुत्ववादपक्षोऽपि । .
ननु जीवस्य विभुत्वानङ्गीकारेऽदृष्टजनित देशान्तरफलोपलब्धिः कथमिति चेन्न । जीवस्य संबन्धाभावेऽप्यदृष्टवशादेवोपपतेः । अदृष्टं नाम भगवत्प्रीत्य प्रीतिजनकजीवकर्तृककर्मविशेषजन्यो ज्ञानविशेषः । स विशेषो भगवत्संकल्प एव विभुस्वरूपं भगवन्तमाश्रितः । अतः फलोपलब्धिरिति न विरोधः ।
सजीवस्त्रिविधः - बद्धमुक्तनित्यभेदात् । तत्र बद्धा नामानिवृत्त संसाराः । से चतुर्दशभुवनात्मकाण्डकटाहवर्तिनो ब्रह्मादिकीटपर्यन्ताश्चेतनविशेषाः । श्रीमनारायणनाभिकमलादुत्पन्नो ब्रह्मा । ब्रह्मणो रुद्रः । पुनर्ब्रह्मणः सनकदियो योगिनो नारदादिदेवर्षयो वसिष्ठभृवादिब्रह्मर्षयः पुलस्त्यमरीचिदक्षैकश्य पादयो नव प्रजापतयो बभूवुः । तेभ्यो देवा दिक्पालाचतुर्दशेन्द्राश्चतुर्दश मन वोऽसुराः पितरः सिद्धगन्धर्वकिंनर किंपुरुषविद्याधरादयो वसवो रुद्रा आदित्या अश्विनौ च दानर्वे यक्षराक्षस पिशाचगुलकादयः । एवं देवयोनयः । मनुष्या अपि ब्राह्मणक्षत्रियवैश्यशूद्रादिजातिभेदाद्बहुविधाः । तिर्यञ्चोऽपि पशुमृगपक्षिसरीसृप पतङ्गकीटादिभेदाद्बहुविधाः । स्थावरा अपि वृक्ष गुल्मलतावीरुत्तृणादिभे
..
f.
&
जीवैक्याभिप्रायम् । किंतु रागद्वेषाभावाभिप्रायम् । यद्यन्योऽस्ति । वि० पु० २ । १३। ८१ । इत्यत्रान्यशब्दोऽन्यादृश इत्यर्थकः । एक एवं हि भूतात्मा ' । ब० बि० १२ । इत्यैक्यमपि भूतसंसर्गशङ्कितवृद्धिहास निषेधाभिप्रायम् । घटध्वंसे ' इत्यादिकं त्वौपाधिकवैषम्यनिवृत्तावत्यन्त साम्यं व्यनक्ति । न हि घटध्वंसे घटावच्छिन्न आकाशांशोंऽशान्तरेणैकों भवति । अन्तःकरणेति । अयं पक्षः शांकरमतानुयायिनः । तदुक्तं वेदान्तपरिभाषायाम् — जीवो नामान्तः करणावच्छिन्नं चैतन्यमिति । तस्य नानात्वमपि तत्रैव स्पष्टम् । अयमपि पक्षो न रमणीयः । कल्पान्तरेऽनुभूतस्य कल्पान्तरेऽनुसंधानानापत्तेः । अन्तःकरणावच्छिन्न चैतन्यस्य जीवत्वे जीवत्वस्यान्तःकरणचैतन्य — एतदुभयसमुदायवृत्तित्वेनान्तः करणभेदे जीवभेदस्य दुर्वारत्वात् । अस्ति हि कल्पभेदे चेतोभेदः । सन्ति च करुपादौ जातिस्मराः स्वयमागतविज्ञाना इति बोध्यम् ।
-----
For Private And Personal Use Only
नन्विति । एतच्चोपपादितं प्रागणुत्वसमर्थने ( पृ० ६९ पं० १२ )
गुल्मेति । गुल्मा अनतिदीर्घनिविडलता मालत्यादयः । लता दीर्घयायिन्यो द्राक्षातिमुक्ताप्रभृतयः । वोरुना अपि या विविधं प्ररोहन्ति ता गुडूचीप्रभृतयः ।
११. ख. 'पद्यते । २. कादियोग ३. घ. काय ४. 'क्रा

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126