Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram

View full book text
Previous | Next

Page 82
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशसहिता। स्वयंप्रकाशत्वं च सिद्धम् । प्रयोगश्च-आत्मा स्वयंप्रकाशः, मानत्वादर्मभूतवानवदिति । बानापुत्वापलत्वादय एतस्य स्वरूपनिरूपकपाः।। एतेन ज्ञानस्य क्षणिकत्वं क्षणिकसंतानरूप आत्मति बौदपक्ष:, भूतचतुष्ट. यात्मकत्वादेहस्य देहावधिक आत्मेति चार्वाकपक्षः, गजदेहे गजपरिमाण: इतिश्रुतेः । सिमिति । स्वस्य चास्य स्वयंप्रकाशत्वम् । परस्य तु तज्ज्ञानविषय. सयैव प्रकाशते । स्वस्यापि प्रमाणान्तरावसेयाणुस्वशेषत्वनियाम्यत्वनित्यत्वादिविशिष्टरू. पेण ज्ञानविषयत्वमस्त्येव । अहमिति प्रत्यक्त्वैकत्वविशिष्टतया तु स्वप्रकाशता सर्व. दा। योगदशायां तु यथावस्थितापूर्वाकारविशिष्टतया यौगिकप्रत्यक्षेण साक्षाक्रियते । तदुक्तमात्मसिद्धौ_ 'योगाम्यातमुवा स्पष्ट प्रत्यक्षण प्रकाश्यते' इति । - 'अत्रायं पुरुषः स्वयंज्योतिर्भवति' (बृ. ४॥९) 'कतम आत्मा योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्योतिः पुरुषः' (बृ. ४११७ ) इत्यादिश्रुतिभिश्चाऽऽत्मनः स्वयंप्रकाशत्वं सिध्यति । यद्यपि ' हृद्यन्तज्योतिः पुरुषः ' इत्यत्र ज्योतिःशब्दो मा. क्तस्तथाऽपि स्वप्रकाशप्रदीपादिवल्लोकदृष्टयाऽन्यनिरपेक्षत्वं स्वरसावगतं न बाध्यम् । स्वयंप्रकाशत्वमनन्याधीनप्रकाशत्वम् । इदमेवाजडत्वम् । . ज्ञानस्यति । इत्थं हि बौद्धमतम् -संविदः स्वयंप्रकाशत्वात्तस्या एवाऽऽत्मत्वम् । किं च यः संविदोऽन्यं संवेदितारमभ्युपगच्छति, अभ्युपगच्छत्येवासौ संविदम् । नासत्यामेव संविदि सवेत्तीत्युपपद्यते । एवं चेभयवादिसंप्रतिपन्नतया सैव परं वंदित्री लाघवाद्भवतु किमन्येन कल्पितेन । तस्मादनायविद्यावशात्समारोपितावास्तवग्राह्यग्राह. कविकल्पोल्लेखिनी स्वयंप्रकाशा संविदेव परमार्थसती सैव चाऽऽत्मेति । परं त्वेतदयुक्तम् । स्वयंप्रकाशत्वं हि नाऽऽत्मत्वस्य व्याप्यम् । किं तु व्यापकम् । लापत्रमप्यप्रयो। जकम् । 'न विज्ञातुर्विज्ञातविपरिलोपो विद्यते' (बृ० ४।३।३०) इति श्रुतौ संवित्तद्वतोः पृथग्दर्शनात् । तदुक्तं तत्त्वमुक्ताकलापे• 'नित्या सा यस्य तद्वानपि निगममिती गौरवं नास्य मारः। (त. क. २।४) इति । किंच संविद आत्मत्वे पूर्वधर्टष्टमपरेारहमिदमदर्शमिति कथमिव प्रत्यभिजानीयात् । न च संवित्संतानाश्रयणेन प्रत्यभिज्ञोपपद्यत इति वाच्यम् । संविध्यतिरिक्तस्य स्थायिनोऽनुसंधायिनः संतानस्याभ्युपगमे स्वसिद्धान्तत्यागः । अनभ्युपगमे प्रत्यभि. ज्ञानुपपत्तिस्तदवस्था । न ह्यन्येनानुभूतेऽन्यस्य प्रतिसंधानप्तंभवः । भूतेति । प्रागुपपादितम् । गजदेह इति । एतदपि मतमयुक्तम् । बृहतः शरीरादरुपीयसि शरीरे प्रविशतोऽपरिपूर्णत्वप्रसङ्गात् । विकारत्वप्रयुक्तानित्यत्वादिदोषप्रम. १ क. ज्ञानवाण । २ क. कत्वात्क्षणि' । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126