Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram

View full book text
Previous | Next

Page 80
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org प्रकाशसंहिता । ७१ स च प्रतिशरीरं भिन्नः । एकपरिमाणेष्वनेकेषु सुवर्णघटेको घट इति वा इमानि भूतानि जायन्ते ' ( तै. ३|१|१ ) ' जीवान्विससर्ज भूम्याम् ' ( म.ना. १४ इत्यादिश्रुतयोऽप्येतदभिप्रायेणैव योज्याः । ननु नित्यत्वे जीवात्मनां ' सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् ( छ. ६।२।१ ) इति श्रुतिप्रतिपादितं सृष्टेः प्रागेकत्वावधारणं विरुध्यत इति चेन्न । नामरूपविभागाभाव एवैकत्वमिति तदाशयात् । एतेनाऽऽत्मानित्यत्ववादिनश्चत्वारोऽपि पक्षा निरस्ता वेदितव्याः । तथाहि - क्षणिक आत्मेति विज्ञानात्मवादिनः । आशरीरस्थायीति प्राणेन्द्रियात्मवादिनः । प्रलयान्त इति पौराणिकैकदेशिनः । मोक्षावधिक इत्यौपनिषदामासाः । तत्र प्रथमे आत्मानमुत्तरकालानवस्थायिनं मन्यमानो न किंचिदुद्दिश्य प्रवर्तेत । प्रवृत्तिर्हि खलूत्तरकाळे सुखं दुःखनिवृत्तिं वाऽभिसंधायैव । साऽत्र कथं घटेत । फलकाले स्वाभावात्स्वकाले फलाभावात् । द्वितीये तु पारलौकिकं फलमभिसंधाय यज्ञादौ प्रवृत्तिर्न स्यात् । साव सार्वत्रिकी दृश्यते । तृतीये मोक्षमार्गोपदेशानर्थक्यम् । चतुर्थेऽप्यानर्थक्यमेव । तदुक्तम् - " Acharya Shri Kailassagarsuri Gyanmandir अहमर्थविनाशश्चेन्मोक्ष इत्यध्यवस्यति । अपसर्पेदसौ मोक्ष कथाप्रस्तावगन्धतः ' इति । ननू 'विज्ञानचन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति' (बृ. २।४।१२ ) इति जीवविनाशः श्रूयते | मैत्रम् । अस्याः श्रुतेर्लोकवीरूढानुवादमात्रत्वात् । प्रतिशरीरमिति । सौभर्यादिक्षेत्रज्ञव्यतिरिक्तस्थल इति शेषः । भिन्न इति । अत एव कस्य चित्सुखित्वकालेऽन्यस्य दुःखित्वं दृश्यते । देहभेदस्तु न तन्नियामकः । सौमरिशरीरे तददर्शनात् । न च देहभेदस्यानियामकत्वे जन्मान्तरानुभूतस्य कुतो न स्मृतिरिति वाच्यम् । संस्कारनाशेन तदुपपत्तेः । न च चैत्रेणानुभूते मैत्रस्यास्मरणमात्मैक्येऽपि संस्कारनाशादेवेति वाच्यम् । तथा सति चैत्रस्याप्यस्मरणप्रसङ्गात् । किं च सुखदुःखयोरेकाश्रयत्व उभयप्रतिसंघानमेकस्यैव स्यात् । कश्चिद्वद्धः कश्चिन्मुक्तः कश्चिच्छिष्यः कश्चिदाचार्य इत्यादिव्यवस्था च न सिध्येत् । देवमनुष्यतिर्यगादिभेदेन विषमसृष्टिश्च नोपपद्येत | कर्मभेदेन तु न विषमा सृष्टिः । जीवैक्यपक्षे हि कस्य कर्म कस्माद्भिन्नमुच्यते । इदं कर्मामुकस्येति व्यवस्थाया असंभवात् । एवमेवान्तः करणभेदस्याप्यनियामकत्वं द्रष्टव्यम् । प्रयोगश्च - चैत्रात्मा मैत्रतादात्म्यरहितः । तदनुभव जस्मृत्यनाधारत्वात्कदाचिदपि तद्गतसुखादिप्रतिसंधानरहितत्वाद्वा । ' नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान् ' ( का० १।१३ ) इत्यादिश्रुतिरपि जीवानेकत्वे प्रमाणम् । नन्वियं श्रुतिरौपाधिकभेदाभिधायिनी । अत एव ' भोक्ता भोग्यम् । ( वे० १।१२ ) इत्यादिमिर्जीवैिकत्वप्रतिपादिकाभिः श्रुतिभिरविरोध इति चेत्तत्राऽऽह - एकपरिमाणेष्विति । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126