Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यतीन्द्रमतदीपिकाएतेनैव सौभरिप्रभृतीनों मुक्तानां च युगपदनेकशरीरपरिग्रहोऽपि संभवति ।
स च नित्यः । पूर्वानुभूतार्थप्रतिसंधानात् । नित्यश्चेज्जीव उत्पन्नो जीवो नष्टो जीव इति प्रतीतिः कथमिति चेन्न । जीवस्य देहसंबन्ध उत्पत्तिस्तद्वियोगो नाश इति प्रतिपादनाजीवस्वरूपं नित्यमेव । सर्वशरीरव्यापिमुखावृपलब्धिरपि ज्ञानद्वारैव बोध्या। ‘स चाऽऽनन्त्याय कल्पते' (श्वे. ५।९ ) इत्यत्रोक्तमानन्त्यमपि धर्मभूतज्ञानद्वारैव बोध्यम् । 'नित्यः सर्वगतः स्थाणुः ' (गी. २।२४ ) इत्यत्रोक्तं सर्वगतत्वमप्येवमेव । धर्मभूतज्ञानद्वारा जीवात्मनः सूक्ष्मानुपवेशक्षमत्वात् ।
'देहेन्द्रियमनःप्राणधीभ्योऽन्योऽनन्यसाधनः ।
नित्यो व्यापी प्रतिक्षेत्रमात्मा भिन्नः स्वतःसुखी ' ( आ. सि. पृ. ६ ) इत्युक्तं व्यापित्वमपि तथैव । यत्तु विष्णुपुराणे ' तस्याऽऽत्मपरदेहेषु सतोऽपि । (वि०पु० २।१४।३१) इत्यत्र जीवात्मनोऽनेकदेहेषु सद्भावप्रतिपादनेन विभुत्वं सूच्यत इति । तन्न । जातिद्वारा तथा प्रतिपादनात् । एकस्य जीवात्मनोऽन्यस्मिन्देहेऽस. स्वेऽपि तज्नातीयस्यान्यस्य सत्त्वात् । देशान्तरे भोग्यवस्तूत्पतिस्तु जीवात्मनोऽणुत्वेऽपि न विरुद्धा । जीवात्मकृतकर्मनिमित्तेश्वरप्रीतिकोपात्मकबुद्धरवादृष्टशब्दार्थत्वात् । ईश्वरस्य च विभुत्वेन तद्बुद्धेः सर्वकार्यसामानाधिकरण्यमव्याहतमेव । एतच्च मूल एवानुपदं स्फुटी मविष्यति । नचाऽऽत्मनाऽणुत्वे पृथिव्याद्यणवत्तस्य प्रत्यक्षत्वं न स्यादिति वाच्यम्। विभुत्वेऽपि तवाऽऽकाशादिविभ्वन्तरवदप्रत्यक्षत्वप्रसङ्गात् । ' यथानुभवं स्वीकार्यमेव ' इति चेन्ममापि तुल्यम् । पृथिव्यादिपरमाणनामप्रत्यक्षत्वस्यास्माभिरनङ्गीकाराच्च । एतेनैवेति । योगिनां नानादेहाधिष्ठानमपि ज्ञानद्वारैवेत्याशयः । मुक्तानां चेति । एतच्च 'प्रदीपवदावेशस्तथाहि दर्शयति' । (ब्र. सू० ४।४।१५ ) इति सूत्रे भाष्ये स्पष्टम् । एतेन "संप्तारदशायां स्वरूपज्ञानयोः संकोचादणुपरिमाणमात्मस्वरूपम् । मोक्षदशायां तु सर्वगतं सर्वव्यापि वरूपं ज्ञानं च विस्तीर्णतया प्रकाशते । एतच्च ‘स चाऽऽनन्त्याय कल्पते ' ( श्वे० ५।९) इति श्रुत्याऽवगम्यते । पराशरेणापि
'विष्णुशक्तिः परा प्रोक्ता क्षेत्रज्ञाख्या तथा परा' (वि. पु. ६१७६१)
इत्यादिना संकोचविकासयोगित्वमुक्तम् " इति वरदविष्णुमिश्रोक्तमपास्तम् । धर्मभूतज्ञानद्वारा तदुपपत्तेरुक्तत्वात् ।।
पूर्वानुभूनेति । ' न जायते म्रियते' ( का.२।१८ ) · ज्ञाज्ञौ द्वावजावीशानीशौ' (श्वे. ११९ ) इत्यादिश्रुतयोऽप्यत्र प्रमाणम् । किं च जीवानित्यत्वेऽकृ. ताभ्यागमकृतविप्रणाशरूपदोषद्वयप्रप्तङ्गः । जीवस्यति । ' प्रजापतिः प्रजा असृजत ' (ते. सं.९।७।३) ' सन्मूलाः सोम्येमाः सर्वाः प्रजाः '( छा.६।८।४ ) 'यतो
१ घ. नां यु। २ घ. त् । जीवउत्पन्नौ जीवो नष्ट ।
For Private And Personal Use Only

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126